SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः न दुर्जनवर्गस्य, सती युक्ताऽपकर्णना ॥ ५॥ ततोऽस्या लघुकर्माणः, क्षीरनीरघिसंनिभाः । गम्भीरहृदया भव्याः, सज्जनाः श्रवणोचिताः ॥६॥ तेषामपि न कर्तव्या, निन्दा नापि प्रशंसनम् । मौनमेव परं श्रेयः, तन्नेदं हन्त कारणम् ॥ ७ ॥ तन्निन्दाथा महापापमनन्तगु शालिनाम् । स्तवोऽपि दुष्करस्तेषां, मादृशैर्जडबुद्धिभिः ॥ ८॥ किंच-अस्तुता अपि ते काव्ये, पश्यन्ति गुणमनसा । दोषामाच्छादयन्येव, प्रकृतिः सा महात्मनाम् ॥ ९ ॥ अतस्तेषां स्तवेनालं, केवलं ते महाधियः । अभ्यर्थनीयाः श्रवणे, तेनेदमभिधीयते ॥ १०॥ -भो भव्याः! सुमनीभूय, कर्ण दत्वा निबोधत । यूयं मदनुरोधेन, वक्ष्यमाणं मया क्षणम् ॥ ११ ॥ ___अनन्तजनसंपूर्णमस्ति लोके सनातनम् । अदृष्टमूलपर्यन्तं, नाम किञ्चिन्महापुरम् ॥ १२ ॥ तच्च कीदृशम्-अभ्रो तुङ्गमनोहारिसोधपद्धतिसंकुलम् । अलब्धमूलपर्यन्तं, हट्टमार्गविराजितम् ॥ १३ ।। अपारैर्भूरिविस्तारै नापण्यैः प्रपूरितम् । |पण्यानां मूल्यभूत्ताभिराकीर्ण रनकोटिभिः ॥ १४ ॥ विचित्रचित्रविन्यासैदूंजते देवमन्दिरैः । आक्षिप्तबालहृदयैर्मिश्चलीकतलोचनैः ॥ १५ ॥ वाचालबालसंघातैलंसत्कलकलाकुलम् । अलक्ष्यतुङ्गप्राकारवलयेन विवेष्टितम् ॥ १६ ॥ अलब्धमध्यगम्भीरं, वेदिका-15 कथामुखं जलदुर्गमम् । विलसल्लोलकल्लोलैः, सरोभिः कृतविस्मयम् ॥ १७ ॥ घोरान्धकूपसंघातैः, शत्रूणां त्रासहेतुभिः । समन्तादुपगूढं च, प्राका- (११२-१५६ राभ्यर्णवर्तिभिः ॥ १८ ॥ भ्रमभ्रमरझङ्कारतारसंगीतसुन्दरैः । नानापुष्पफलाकीणीति चामरकाननैः ॥ १९ ॥ अनेकाश्चर्यभूयिष्ठं, तच्चमत्कारकारणम् । अदृष्टमूलपर्यन्तमीदृशं हि महापुरम् ॥ २०॥ अष्टभिः कुलकम् ॥ तत्र निष्पुण्यको नाम, कश्चिद्रको महोदरः। निर्नष्टबन्धुर्दुर्बुद्धिरर्थपौरुषवर्जितः ॥ २१ ॥ क्षुधाक्षामतनुर्भिक्षामादाय घटकर्परम् । पर्यटत्यनिशं दीनो, निन्द्यमानो गृहे गृहे ॥ २२ ॥ [अनाथो भूमिशयनघृष्टपार्वत्रिकः परम् । धूलीधूसरसर्वाङ्गन्धीरिकाजालमालितः॥ २३ ॥ दुर्दान्तडिम्भसंघातैस्ताड्यमानः क्षणे क्षणे । Kol॥on Jain Educat i onal For Private & Personel Use Only rajainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy