SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ उपमितौल यष्टिमुष्टिमहालोष्टप्रहारैर्जर्जरीकृतः ॥ २४ ॥ सर्वाङ्गीणमहाघाततापानुगतचेतनः । हा मातस्त्रायतामित्थं, दैन्यविक्रोशविक्लवः ॥ २५॥ पीठबन्धः एसोन्मादः सज्वरः कुष्ठी, सपामः शूलपीडितः । निलयः सर्वरोगाणां, वेदनावेगविह्वलः ॥ २६ ॥ शीतोष्णदंशमशकक्षुत्पिपासायुपद्रवैः । बाध्यमानो महाघोरनारकोपमवेदनः ।। २७ ॥ कृपास्पदं सतां दृष्टो, हास्यस्थानं स मानिनाम् । बालानां क्रीडनावासो, दृष्टान्तः पापकर्मणाम् ॥ २८ ॥ अन्येऽपि बहवः सन्ति, रोरास्तत्र महापुरे । केवलं तादृशः प्रायो, नास्ति निर्भाग्यशेखरः ॥ २९ ॥ तस्य तस्य गृहे लप्स्ये, भिक्षामित्यादि चिन्तयन् । ध्यानमापूरयन् रौद्रं, विकल्पाकुलमानसः ॥ ३० ॥ स किञ्चिन्नैव लभते, केवलं परिताम्यति । कदनलेशमात्रं तु, राज्यवत्प्राप्य तुष्यति ॥ ३१ ॥ अवज्ञया जनैर्दत्तं, मुखानस्तत् कदन्नकम् । शक्रादपि बिभेत्युच्चैरयमेतद् ग्रहीष्यति ॥ ३२ ॥ तृप्तिस्तेनापि नैवास्य, बुभुक्षा वर्द्धते परम् । जीर्यत्तत्पीडयत्येनं, कृत्वा वातविसूचिकाम् ॥ ३३ ॥ अन्यच्च सर्वरोगाणां, निदान तदुदाहृतम् । तदेव पूर्वरोगाणामभिवृद्धिकरं परम् ॥ ३४ ॥ स च तन्मन्यते चारु, वराको नान्यदीक्षते । सुस्वादुभोजनास्वादो, न स्वप्ने|ऽप्यस्य गोचरः ॥ ३५ ॥ उच्चावचेषु गेहेषु, नानाकारासु वीथिषु । बहुशस्तत्पुरं तेन, भ्रान्तमश्रान्तचेतसा ।। ३६ ।। एवं पर्यटतस्तस्य, महापापहतात्मनः । न ज्ञायते कियान् कालो, दुःखप्रस्तस्य लचितः ।। ३७ ।। अथ तत्र पुरे राजा, सुस्थितो नाम विश्रुतः । समस्तसस्वसङ्घस्य, स्वभावादतिवत्सलः ॥ ३८ ॥ अटाट्यमानोऽसौ रङ्कः, संप्राप्तस्तस्य मन्दिरम् । स्वकर्मविवरो नाम, तत्राऽऽस्ते द्वारपालकः | ॥ ३९ ॥ स द्वारपालस्तं रोरं, दृष्ट्वाऽतिकरुणास्पदम् । प्रावेशयत् कृपालुत्वादपूर्व राज्यमन्दिरम् ॥ ४० ॥ तच्च कीदृशम्-रत्नराशिप्रभा-| ज्वालैस्तमोबाधाविवर्जितम् । रसनानूपुराग्रुत्थभूषणारावसुन्दरम् ॥ ४१ ॥ देवपट्टांशुकोल्लोचलोलमौक्तिकमालिकम् । ताम्बूललालिताशेषलोकवक्रमनोहरम् ॥ ४२ ॥ विचित्रभक्तिविन्यासैर्गन्धोद्धरसुवर्णकैः । आकीर्ण प्राङ्गणं माल्यैः, कलालिकुलगीतिभिः ॥ ४३ ॥ विलेपन द्वारप्राप्तिः १३८-१४० ॥८ ॥ Jain Educac ional For Private & Personel Use Only jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy