SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ पमितौ ठिबन्धः अधिकारिनिर्देश: |८५-१०२ USARROCARR निजदेशदिक्षया । विनिर्गतो विलासेन, प्राप्तः शङ्खपुरेऽन्यदा ॥ ८६ ॥ तत्र चित्तरमोद्याने, मनोनन्दननामके । जैने समन्तभद्राख्याः, सूरयो भवने स्थिताः ॥ ८७ ॥ अभूश्च तत्समीपस्था, महाभद्रा प्रवर्तिनी । तथा सुललिता नाम, राजपुत्री सुमुग्धिका ॥ ८८ ॥ तथा- ऽन्यः पौण्डरीकाख्या, समीपे राजदारकः । आसीत्समन्तभद्राणां, तदा संसच्च पुष्कला ॥ ८९ ॥ ततश्च कृतभूरिमहापापं, दृष्ट्वा तं चक्रवर्तिनम् । ज्ञानालोकेन ते धीराः, सूरयः प्राहुरीदृशम् ॥ ९०॥ यस्य कोलाहलो लोके, श्रूयते नीयतेऽधुना । संसारिजीवनामायं, तस्करो वध्यधामनि ॥ ९१॥ एतत् सूरेषचः श्रुत्वा, महाभद्रा व्यचिन्तयत् । कश्चिन्नरकगाम्येष, जीवो योऽवर्णि सूरिभिः।। ९२ ॥ तत्तः सा करुणोपेता, तत्समीपमुपागता । तद्दर्शनाच्च संजातं, ज्ञानं तस्य स्खगोचरम् ॥ ९३ ॥ ततो विज्ञाय वृत्तान्तं, तस्कराकारधारकः । भूत्वा वैक्रियलब्ध्याऽसौ, तया सार्द्ध समागतः ॥ ९४ ॥ ततः सा राजपुत्री तं, पप्रच्छ विहितादरम् । अशेषचौर्यवृत्तान्तं, सोऽप्युक्तस्तेन सूरिणा ॥ ९५ ॥ भवप्रपश्चमात्मीयं, तस्या बोधविधित्सया । उपमाद्वारतः प्राह, तीव्र संवेगकारणम् ॥ ९६ ॥ श्रुत्वा च तं प्रबुद्धोऽसौ, लघुकर्मतया स्वयम् । पौण्डरीकः क्षणादेव, प्रसङ्गश्रवणादपि ॥ ९७ ॥ सा पुनः कथितेऽप्युच्चैः, प्राचीनमलदोषतः । अबुध्यमामा तेनैव, भूयो भूयः प्रचोदिता ॥ ९८ ॥ अथ कृच्छ्रेण साऽप्येवं, प्रबुद्धा विहितं ततः । सर्वैरेवात्मनः पथ्यं, गतानि च शिवालयम् ॥ ९९ ॥ कथाशरीरमेतच्च, धारणीयं स्वमानसे । प्रस्तावे चाष्टमे सर्वमिदं व्यक्तीभविष्यति ॥ १०० ॥ एवं स्थिते-यतः सर्वज्ञसिद्धान्तबचनामृतसागरात् । नियन्दबिन्दुभूतेयमाकृष्टा परमार्थतः ॥ १॥ ततो दुर्जनवर्गोऽस्याः, श्रवणं नाप्तुमर्हति । कालकूटविषं नैव, युज्यतेऽमृतबिन्दुना ॥२॥ अतो दुर्जनबर्गस्य, नेह दोषविचारणम् । क्रियते पापकारिण्या, पापानां कथयाऽप्यलम् ॥ ३ ॥ स्तुतोऽपि दुर्जनः काव्ये, दोषमेव प्रकाशयेत् । निन्दितस्तु विशेषेण, युक्ताऽतोऽस्यावधीरणा ॥ ४ ॥ अथवा-निन्दायामात्मदौर्जन्यं, सवेऽप्यनृतभाषणम् । भवे O S Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy