SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ पमितौ ठिबन्धः अधिकारिनिर्देश: |८५-१०२ USARROCARR निजदेशदिक्षया । विनिर्गतो विलासेन, प्राप्तः शङ्खपुरेऽन्यदा ॥ ८६ ॥ तत्र चित्तरमोद्याने, मनोनन्दननामके । जैने समन्तभद्राख्याः, सूरयो भवने स्थिताः ॥ ८७ ॥ अभूश्च तत्समीपस्था, महाभद्रा प्रवर्तिनी । तथा सुललिता नाम, राजपुत्री सुमुग्धिका ॥ ८८ ॥ तथा- ऽन्यः पौण्डरीकाख्या, समीपे राजदारकः । आसीत्समन्तभद्राणां, तदा संसच्च पुष्कला ॥ ८९ ॥ ततश्च कृतभूरिमहापापं, दृष्ट्वा तं चक्रवर्तिनम् । ज्ञानालोकेन ते धीराः, सूरयः प्राहुरीदृशम् ॥ ९०॥ यस्य कोलाहलो लोके, श्रूयते नीयतेऽधुना । संसारिजीवनामायं, तस्करो वध्यधामनि ॥ ९१॥ एतत् सूरेषचः श्रुत्वा, महाभद्रा व्यचिन्तयत् । कश्चिन्नरकगाम्येष, जीवो योऽवर्णि सूरिभिः।। ९२ ॥ तत्तः सा करुणोपेता, तत्समीपमुपागता । तद्दर्शनाच्च संजातं, ज्ञानं तस्य स्खगोचरम् ॥ ९३ ॥ ततो विज्ञाय वृत्तान्तं, तस्कराकारधारकः । भूत्वा वैक्रियलब्ध्याऽसौ, तया सार्द्ध समागतः ॥ ९४ ॥ ततः सा राजपुत्री तं, पप्रच्छ विहितादरम् । अशेषचौर्यवृत्तान्तं, सोऽप्युक्तस्तेन सूरिणा ॥ ९५ ॥ भवप्रपश्चमात्मीयं, तस्या बोधविधित्सया । उपमाद्वारतः प्राह, तीव्र संवेगकारणम् ॥ ९६ ॥ श्रुत्वा च तं प्रबुद्धोऽसौ, लघुकर्मतया स्वयम् । पौण्डरीकः क्षणादेव, प्रसङ्गश्रवणादपि ॥ ९७ ॥ सा पुनः कथितेऽप्युच्चैः, प्राचीनमलदोषतः । अबुध्यमामा तेनैव, भूयो भूयः प्रचोदिता ॥ ९८ ॥ अथ कृच्छ्रेण साऽप्येवं, प्रबुद्धा विहितं ततः । सर्वैरेवात्मनः पथ्यं, गतानि च शिवालयम् ॥ ९९ ॥ कथाशरीरमेतच्च, धारणीयं स्वमानसे । प्रस्तावे चाष्टमे सर्वमिदं व्यक्तीभविष्यति ॥ १०० ॥ एवं स्थिते-यतः सर्वज्ञसिद्धान्तबचनामृतसागरात् । नियन्दबिन्दुभूतेयमाकृष्टा परमार्थतः ॥ १॥ ततो दुर्जनवर्गोऽस्याः, श्रवणं नाप्तुमर्हति । कालकूटविषं नैव, युज्यतेऽमृतबिन्दुना ॥२॥ अतो दुर्जनबर्गस्य, नेह दोषविचारणम् । क्रियते पापकारिण्या, पापानां कथयाऽप्यलम् ॥ ३ ॥ स्तुतोऽपि दुर्जनः काव्ये, दोषमेव प्रकाशयेत् । निन्दितस्तु विशेषेण, युक्ताऽतोऽस्यावधीरणा ॥ ४ ॥ अथवा-निन्दायामात्मदौर्जन्यं, सवेऽप्यनृतभाषणम् । भवे O S Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy