Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 16
________________ उपमितौ पीठबन्धः + ॥ १२ ॥ Jain Education ७ परमान्नं न गृह्णाति ?, ददात्यपि च नोत्तरम् ॥ २०० ॥ विद्राणवदनोऽत्यन्तं निमीलितविलोचनः । हृतसर्वस्ववन्मोहात्, संजातः काष्ठकीलवत् ॥ १ ॥ तदयं नोचितो मन्ये, परमान्नस्य पापभाक् । यद्वा नास्य वराकस्य, दोषोऽयमुपलभ्यते ॥ २ ॥ अयं हि रोगजालेन, बहिरन्तश्च वेष्टितः । वेदनाविह्वलो मन्ये, न हि जानाति किश्चन ॥ ३ ॥ अन्यथा कथमेतत्स्यात् कदन्नलवलम्पटः । अमृतास्वादमप्येष न गृह्णीयात्सचेतनः १ ॥ ४ ॥ तदयं निर्गदो हन्त, केनोपायेन जायते ? । आ ज्ञातं विद्यते चारु, मम तद् भेषजत्रयम् ॥ ५ ॥ यत्तावद्विमालोकं, नाम मे परमाञ्जनम् । समस्तनेत्ररोगाणां, स्यादपाकरणक्षमम् || ६ || सूक्ष्मव्यवहितातीतभाविभावविलोकने । परमं कारणं मन्ये, प्रयुक्तं तद्विधानतः ॥ ॥ तत्त्वप्रीतिकरं नाम यच्च तीर्थोदकं परम् । विद्यते मम तत्सर्वरोगतानवकारणम् ॥ ८ ॥ विशेषात्पुनरुन्मादसूदनं तदुदाहृतम् । दृढं च पटुदृष्टित्वे, कारणं वर्णितं बुधैः ॥ ९ ॥ महाकल्याणकं नाम, यचैतदुपढौकितम् । परमान्नमिदं सर्वगदनिर्मूलनक्षमम् ॥ १० ॥ प्रयुज्यमानं विधिना, वर्ण पुष्टिं धृतिं बलम् । मनःप्रसादमौर्जित्यं, वयः स्तम्भं सवीर्यताम् ॥ ११ ॥ तथाऽजरामरत्वं च कुर्यादेतन्न संशयः । नातः परतरं मन्ये, लोकेऽपि परमौषधम् ।। १२ ।। तदेनममुना सम्यक्, त्रयेणापि तपस्विनम् । व्याधिभ्यो मोचयामीति, चित्ते तेनावधारितम् ॥ १३ ॥ ततः शलाकामादाय, विन्यस्याप्रे तदञ्जनम् । तस्य धूनयतो ग्रीवामजिते तेन लोचने ॥ १४ ॥ प्रह्लादकत्वाच्छीतत्वादचिन्त्यगुणयोगतः । तदनन्तरमेवास्य, चेतना पुनरागता ।। १५ ।। क्षणादुन्मीलितं चक्षुर्विनष्टा इव तद्गदाः । मनागाह्वादितश्चित्ते, किमेतदिति मन्यते ॥ १६ ॥ तथापि च तदाकूतं, मिक्षारक्षणलक्षणम् । पूर्वावेधवशान्नैव सम्यगस्य निवर्त्तते ।। १७ ।। विजनं वर्त्तते हन्त, लास्यत्येनां व्यचिन्तयत् । नष्टुकामो दिगन्तेषु, दृष्टिं धत्ते पुनः पुनः ॥ १८ ॥ अथाञ्जनवशादृष्ट्वा, पुरः संजातचेतनम् । तं रोरं मधुरैर्वाक्यैर्धर्मबोधकरोऽब्रवीत् ॥ १९ ॥ पिबेदमुदकं भद्र ?, तापो For Private & Personal Use Only सत्रयी योगः २०२-२१८ ॥ १२ ॥ ainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 474