________________
उपमितौ पीठबन्धः +
॥ १२ ॥
Jain Education
७
परमान्नं न गृह्णाति ?, ददात्यपि च नोत्तरम् ॥ २०० ॥ विद्राणवदनोऽत्यन्तं निमीलितविलोचनः । हृतसर्वस्ववन्मोहात्, संजातः काष्ठकीलवत् ॥ १ ॥ तदयं नोचितो मन्ये, परमान्नस्य पापभाक् । यद्वा नास्य वराकस्य, दोषोऽयमुपलभ्यते ॥ २ ॥ अयं हि रोगजालेन, बहिरन्तश्च वेष्टितः । वेदनाविह्वलो मन्ये, न हि जानाति किश्चन ॥ ३ ॥ अन्यथा कथमेतत्स्यात् कदन्नलवलम्पटः । अमृतास्वादमप्येष न गृह्णीयात्सचेतनः १ ॥ ४ ॥ तदयं निर्गदो हन्त, केनोपायेन जायते ? । आ ज्ञातं विद्यते चारु, मम तद् भेषजत्रयम् ॥ ५ ॥ यत्तावद्विमालोकं, नाम मे परमाञ्जनम् । समस्तनेत्ररोगाणां, स्यादपाकरणक्षमम् || ६ || सूक्ष्मव्यवहितातीतभाविभावविलोकने । परमं कारणं मन्ये, प्रयुक्तं तद्विधानतः ॥ ॥ तत्त्वप्रीतिकरं नाम यच्च तीर्थोदकं परम् । विद्यते मम तत्सर्वरोगतानवकारणम् ॥ ८ ॥ विशेषात्पुनरुन्मादसूदनं तदुदाहृतम् । दृढं च पटुदृष्टित्वे, कारणं वर्णितं बुधैः ॥ ९ ॥ महाकल्याणकं नाम, यचैतदुपढौकितम् । परमान्नमिदं सर्वगदनिर्मूलनक्षमम् ॥ १० ॥ प्रयुज्यमानं विधिना, वर्ण पुष्टिं धृतिं बलम् । मनःप्रसादमौर्जित्यं, वयः स्तम्भं सवीर्यताम् ॥ ११ ॥ तथाऽजरामरत्वं च कुर्यादेतन्न संशयः । नातः परतरं मन्ये, लोकेऽपि परमौषधम् ।। १२ ।। तदेनममुना सम्यक्, त्रयेणापि तपस्विनम् । व्याधिभ्यो मोचयामीति, चित्ते तेनावधारितम् ॥ १३ ॥ ततः शलाकामादाय, विन्यस्याप्रे तदञ्जनम् । तस्य धूनयतो ग्रीवामजिते तेन लोचने ॥ १४ ॥ प्रह्लादकत्वाच्छीतत्वादचिन्त्यगुणयोगतः । तदनन्तरमेवास्य, चेतना पुनरागता ।। १५ ।। क्षणादुन्मीलितं चक्षुर्विनष्टा इव तद्गदाः । मनागाह्वादितश्चित्ते, किमेतदिति मन्यते ॥ १६ ॥ तथापि च तदाकूतं, मिक्षारक्षणलक्षणम् । पूर्वावेधवशान्नैव सम्यगस्य निवर्त्तते ।। १७ ।। विजनं वर्त्तते हन्त, लास्यत्येनां व्यचिन्तयत् । नष्टुकामो दिगन्तेषु, दृष्टिं धत्ते पुनः पुनः ॥ १८ ॥ अथाञ्जनवशादृष्ट्वा, पुरः संजातचेतनम् । तं रोरं मधुरैर्वाक्यैर्धर्मबोधकरोऽब्रवीत् ॥ १९ ॥ पिबेदमुदकं भद्र ?, तापो
For Private & Personal Use Only
सत्रयी
योगः
२०२-२१८
॥ १२ ॥
ainelibrary.org