SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः ॥ ११ ॥ Jain Education त्स्यते ॥ ८२ ॥ इत्याकलय्य तस्यासौ, करुणाप्रवणोऽभवत् । सत्यं तच्छूयते लोके, यथा राजा तथा प्रजाः ॥ ८३ ॥ अथादरवशात्तूर्णं, तस्य मूलमुपागमत् । एह्येहि दीयते तुभ्यमित्येवं तमवोचत ॥ ८४ ॥ कदर्थनार्थमायाताः पश्चाल्लग्नाः सुदारुणाः । दुर्दान्तडिम्भा ये तस्य, दृष्ट्वा तं ते पलायिताः ।। ८५ ।। भिक्षाचरोचिते देशे, स तं नीत्वा प्रयत्नतः । धर्मबोधकरस्तस्मै, दानाय जनमादिशत् ॥ ८६ ॥ अथास्ति तहया नाम दुहिता तस्यै सुन्दरा । सा तद्वचनमाकर्ण्य, संभ्रमेण समुत्थिता ॥ ८७ ॥ समस्तगदनिर्णाशि, वर्णौजः पुष्टिवर्द्धनम् । सुगन्धि सुरसं स्निग्धं देवैरप्यतिदुर्लभम् ॥ ८८ ॥ महाकल्याणकं नाम, परमान्नं मनोहरम् । सा तदादाय वेगेन, तत्समीपमुपागता ॥ ८९ ॥ युग्मम् । इतश्च नीयमानोऽसौ द्रमकः पर्यचिन्तयत् । तुच्छाभिप्रायवशतः, शङ्कयाऽऽकुलमानसः ॥ ९० ॥ यदयं मां समाहूय, पुरुषो नयति स्वयम् । भिक्षार्थं किल नैवैतत्, सुन्दरं मम भासते ॥ ९१ ॥ भिक्षायाः पूरितप्रायमिदं हि घटकर्परम् । तदेष विजने नीत्वा, नूनमुद्दा ँयिष्यति ।। ९२ ।। तत् किं नश्यामि सहसा ?, भक्षयाम्युपविश्य वा ? | कार्य भिक्षयेत्युक्त्वा, यद्वा गच्छामि सत्वरम् ॥ ९३ ॥ इत्यनेकविकल्पैश्च भयं तस्य विवर्द्धते । तद्वशान्नैव जानीते, काहं यातः क च स्थितैः ॥ ९४ ॥ गाढमूर्च्छाभिभूतत्वात्संरक्षणनिमित्तकम् । रौद्रध्यानं समापूर्य, मीलिते तेन लोचने ।। ९५ ।। समस्तेन्द्रियवृत्तीनां व्यापारोपरतेः क्षणात् । नासौ चेतयते किञ्चित् काष्टवन्नष्टचेतनः ॥ ९६ ॥ गृहाणेति च जल्पन्तीं भूयो भूयः समाकुलाम् । ततोऽसौ द्रमकोऽपुण्यो, न जानात्येव कन्यकाम् ॥ ९७ ॥ सर्वरोगकरं तुच्छं, कदन्नं न भविष्यति । इति ध्यानेन नष्टात्मा, तां सुधां नावबुध्यते ॥ ९८ ॥ प्रत्यक्षं तमसंभाव्यं, वृत्तान्तं वीक्ष्य विस्मितः । स तदा चिन्तयत्येवं, महानसनियुक्तकः ॥ ९९ ॥ किमेष द्रमकचारु, दीयमानमपि स्फुटम् । १ उपरि. २ धर्मबोधकस्य. ३ प्रहीष्यति नाशयिष्यतीति वा ४ नीतः प्र. ५ इतीतिशेषः ६ पुनर्मे इति शेषः ७ भिक्षां तद्दयया वितीर्यमाणां. Jitional For Private & Personal Use Only रंकभिक्षादानं १८४-१८९ द्रमककु विकल्पः १९०-२०१ ॥ ११ ॥ Jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy