SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ SC उपमितौ पीठबन्धः सर्वद्वन्द्वविवर्जिताः । प्रहृष्टचित्ता मोदन्ते, सततं येऽत्र मन्दिरे ॥ ६४ ॥ यावत्स चिन्तयत्येवं, द्रमको लब्धचेतनः । तावद्यत्तत्र संपन्नं, प्रभुदृष्टितदिदानी निबोधत्त ।। ६५॥ प्रासादशिखरे रम्ये, सप्तमे भूमिकातले । तत्राऽऽस्ते लीलयाऽऽसीनः, स राजा परमेश्वरः ॥६६॥ पात: अधस्ताद्वर्ति तत्सर्व, नानाव्यापारमजसा । नगरं सततानन्द, समन्तादवलोकयम् ॥ ६७ ॥ न किश्चिन्नगरे तत्र, बहिश्च खलु वर्तते । १६५-१८३ वस्तु यन्न भवेद्दष्टेगर्गोचरस्तस्य पश्यतः ॥ ६८ ॥ अतः प्रविष्टं तं रोरं, गाढबीभत्सदर्शनम् । महारोगभराक्रान्तं, शिष्टानां करुणास्पदम् ॥ ६९ । कारुण्यादिव राजेन्द्रः, स महात्माऽमलेक्षणः । स्वदृष्टिवृष्टिपातेन, पूतपापमिवाकरोत् ॥ ७० ॥ धर्मबोधकरो नाम, | महानसनियुक्तकः । स राजदृष्टिं तां तत्र, पतन्ती निरवर्णयत् ।। ७१ ॥ अथासौ चिन्तयत्येवं, तदा साकूतमानसः । किमेतदद्भुतं नाम, साम्प्रतं दृश्यते मया ॥ ७२ ॥ यस्य दृष्टिं विशेषेण, ददाति परमेश्वरः । तूर्ण त्रिभुवनस्यापि, स राजा जायते नरः॥ ७३ ॥ अयं तु द्रमको दीनो, रोगप्रस्तशरीरकः । अलक्ष्मीभाजनं मूढो, जगदुद्वेगकारणम् ॥ ७४ ॥ आलोच्यमानोऽपि कथं, पौर्वापर्येण युज्यते । तद्-| स्योपरि पातोऽयं, सदृष्टेः पारमेश्वरः ॥ ७५ ॥ हुं ज्ञातमेष एवात्र, हेतुरस्य निरीक्षणे । स्वकर्मविवरेणात्र, यस्मादेष प्रवेशितः ॥ ७६ ॥ खकर्मविवरश्चार्य, नापरीक्षितकारकः । तेनायं राजराजेन, सम्यग्दृष्ट्या विलोकितः ॥ ७७ ॥ अन्यच्च पक्षपातोऽत्र, भवने यस्य जायते ।। परमेश्वरपादानां, स प्रियत्वं प्रपद्यते ॥ ७८ ॥ अयं च नेत्ररोगेण, नितरां परिपीडितः । एतद्दिदृक्षयाऽत्यर्थमुन्मिषत्येव लोचने ॥ ७९ ॥ दर्शनादस्य सहसा, गाढबीभत्सदर्शनम् । प्रमोदाद्वदनं मन्ये, लभते दर्शनीयताम् ॥ ८० ॥ रोमाञ्चयति चाङ्गानि, धूलीधूसरितान्ययम् ।। ततोऽनुरागो जातोऽस्य, भवने तेन वीक्ष्यते ॥ ८१ ॥ तदयं द्रमकाकार, बिभ्राणोऽप्यधुना स्फुटम् । राजावलोकनादेव, वस्तुत्वं प्रतिप-ला १ अज्ञासीत्. २ उपरि. ३ नहि नहि प्र. ४ रकवदनविशेषणम्. ॥ १०॥ ८ Jain Education national For Private & Personel Use Only car.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy