SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ SC उपमितौ पीठबन्धः सर्वद्वन्द्वविवर्जिताः । प्रहृष्टचित्ता मोदन्ते, सततं येऽत्र मन्दिरे ॥ ६४ ॥ यावत्स चिन्तयत्येवं, द्रमको लब्धचेतनः । तावद्यत्तत्र संपन्नं, प्रभुदृष्टितदिदानी निबोधत्त ।। ६५॥ प्रासादशिखरे रम्ये, सप्तमे भूमिकातले । तत्राऽऽस्ते लीलयाऽऽसीनः, स राजा परमेश्वरः ॥६६॥ पात: अधस्ताद्वर्ति तत्सर्व, नानाव्यापारमजसा । नगरं सततानन्द, समन्तादवलोकयम् ॥ ६७ ॥ न किश्चिन्नगरे तत्र, बहिश्च खलु वर्तते । १६५-१८३ वस्तु यन्न भवेद्दष्टेगर्गोचरस्तस्य पश्यतः ॥ ६८ ॥ अतः प्रविष्टं तं रोरं, गाढबीभत्सदर्शनम् । महारोगभराक्रान्तं, शिष्टानां करुणास्पदम् ॥ ६९ । कारुण्यादिव राजेन्द्रः, स महात्माऽमलेक्षणः । स्वदृष्टिवृष्टिपातेन, पूतपापमिवाकरोत् ॥ ७० ॥ धर्मबोधकरो नाम, | महानसनियुक्तकः । स राजदृष्टिं तां तत्र, पतन्ती निरवर्णयत् ।। ७१ ॥ अथासौ चिन्तयत्येवं, तदा साकूतमानसः । किमेतदद्भुतं नाम, साम्प्रतं दृश्यते मया ॥ ७२ ॥ यस्य दृष्टिं विशेषेण, ददाति परमेश्वरः । तूर्ण त्रिभुवनस्यापि, स राजा जायते नरः॥ ७३ ॥ अयं तु द्रमको दीनो, रोगप्रस्तशरीरकः । अलक्ष्मीभाजनं मूढो, जगदुद्वेगकारणम् ॥ ७४ ॥ आलोच्यमानोऽपि कथं, पौर्वापर्येण युज्यते । तद्-| स्योपरि पातोऽयं, सदृष्टेः पारमेश्वरः ॥ ७५ ॥ हुं ज्ञातमेष एवात्र, हेतुरस्य निरीक्षणे । स्वकर्मविवरेणात्र, यस्मादेष प्रवेशितः ॥ ७६ ॥ खकर्मविवरश्चार्य, नापरीक्षितकारकः । तेनायं राजराजेन, सम्यग्दृष्ट्या विलोकितः ॥ ७७ ॥ अन्यच्च पक्षपातोऽत्र, भवने यस्य जायते ।। परमेश्वरपादानां, स प्रियत्वं प्रपद्यते ॥ ७८ ॥ अयं च नेत्ररोगेण, नितरां परिपीडितः । एतद्दिदृक्षयाऽत्यर्थमुन्मिषत्येव लोचने ॥ ७९ ॥ दर्शनादस्य सहसा, गाढबीभत्सदर्शनम् । प्रमोदाद्वदनं मन्ये, लभते दर्शनीयताम् ॥ ८० ॥ रोमाञ्चयति चाङ्गानि, धूलीधूसरितान्ययम् ।। ततोऽनुरागो जातोऽस्य, भवने तेन वीक्ष्यते ॥ ८१ ॥ तदयं द्रमकाकार, बिभ्राणोऽप्यधुना स्फुटम् । राजावलोकनादेव, वस्तुत्वं प्रतिप-ला १ अज्ञासीत्. २ उपरि. ३ नहि नहि प्र. ४ रकवदनविशेषणम्. ॥ १०॥ ८ Jain Education national For Private & Personel Use Only car.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy