SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः पानं तद्गु ॥१३॥ पशमकारणम् । येन ते स्वस्थता सम्यक् , शरीरस्योपजायते ॥ २० ॥ स तु शङ्काऽऽकुलाऽऽकूतः, किमनेन भविष्यति । न जान इति । बलात्पयःमूढात्मा, नोदकं पातुमिच्छति ॥ २१ ॥ कृपापरीतचित्तेन, हितत्वात्तदनिच्छतः । बलाद्विवृत्य वदनं, सलिलं तस्य गालितम् ॥ २२ ॥ |तच्छीतममृतास्वादं, चित्ताहादकरं परम् । नीरमीरितसंतापं, पीत्वा स्वस्थ इवाभवत् ॥ २३ ॥ नष्टप्रायमहोन्मादो, जातान्यगदतानवः । णश्च क्षणाद्विगतदाहार्तिस्ततोऽसौ समपद्यत ॥ २४ ॥ सुप्रसन्नेन्द्रियग्रामः, स्वस्थेनैवान्तरात्मना । सोऽचिन्तयदिदं चित्ते, किञ्चिद्विमलचे- १९-२४ तनः ॥ २५ ॥ महामोहहतेनाहो, नरोऽयमतिवत्सलः । मया महात्मा पापेन, वञ्चकत्वेन कल्पितः ॥ २६ ॥ ममाञ्जनप्रयोगेण, विहिता कदन्नपटुदृष्टिता । अनेन तोयपानेन, जनिता स्वस्थता परा ॥ २७ ॥ तस्मान्महोपकारीति, किमस्योपकृतं मया? । महानुभावतां मुक्त्वा, मूर्छा | नान्यदस्य प्रवर्तकम् ॥ २८ ॥ एवं चिन्तयतोऽप्यस्य, मूर्छा तत्र कदन्नके । गाढं भावितचित्तत्वान्न कथञ्चिन्निवर्त्तते ॥ २९ ॥ अथ २५-३६ तद्भोजने दृष्टिं, पातयन्तं मुहुर्मुहुः । विदित्वा तदभिप्रायमितरस्तमभाषत ॥ ३०॥-अरे द्रमक! दुर्बुद्धे, किमिदं नावबुध्यसे ? । यदेषा कन्यका तुभ्यं, परमान्नं प्रयच्छति ॥ ३१ ॥ भवन्ति रोराः प्रायेण, बहवोऽन्येऽपि पापिनः । त्वत्समो नास्ति निर्भाग्यो, मयैतत्परिनिश्चितम् ॥ ३२ ॥ यस्त्वं कदन्नलाम्पट्यात्सुधाऽऽकारमिदं मया । दाप्यमानं न गृह्णासि, परमान्नमनाकुलः ।। ३३ ॥ अन्येऽस्मात्सझनो बाह्याः, सत्त्वास्तिष्ठन्ति दुःखिताः । तेषु नैवादरोऽस्माकं, न ते राज्ञाऽवलोकिताः ॥ ३४ ॥ यतस्त्वं भवनं दृष्ट्वा, मनागाहादितो हृदि । तवोपरि नरेन्द्रस्य, दयाऽतोऽस्तीति गम्यते ॥ ३५ ॥ प्रिये प्रियं सदा कुर्युः, स्वामिनः सेवका इति । यो न्यायस्तद्विधानार्थ, वयं त्वयि १ पायितं. २ नाशितसन्तापं. ३ लोचनः प्र. ४ महानसनियुक्तः. ५ दृष्टिनी प्र. ६यत इति शेषः ७ खामिनः प्रिये सेवकाः सदा शिवंत कुर्युरिति. M॥१३॥ उ. भ.२ Jain Educa t ional For Private & Personel Use Only Rivw.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy