SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः पानं तद्गु ॥१३॥ पशमकारणम् । येन ते स्वस्थता सम्यक् , शरीरस्योपजायते ॥ २० ॥ स तु शङ्काऽऽकुलाऽऽकूतः, किमनेन भविष्यति । न जान इति । बलात्पयःमूढात्मा, नोदकं पातुमिच्छति ॥ २१ ॥ कृपापरीतचित्तेन, हितत्वात्तदनिच्छतः । बलाद्विवृत्य वदनं, सलिलं तस्य गालितम् ॥ २२ ॥ |तच्छीतममृतास्वादं, चित्ताहादकरं परम् । नीरमीरितसंतापं, पीत्वा स्वस्थ इवाभवत् ॥ २३ ॥ नष्टप्रायमहोन्मादो, जातान्यगदतानवः । णश्च क्षणाद्विगतदाहार्तिस्ततोऽसौ समपद्यत ॥ २४ ॥ सुप्रसन्नेन्द्रियग्रामः, स्वस्थेनैवान्तरात्मना । सोऽचिन्तयदिदं चित्ते, किञ्चिद्विमलचे- १९-२४ तनः ॥ २५ ॥ महामोहहतेनाहो, नरोऽयमतिवत्सलः । मया महात्मा पापेन, वञ्चकत्वेन कल्पितः ॥ २६ ॥ ममाञ्जनप्रयोगेण, विहिता कदन्नपटुदृष्टिता । अनेन तोयपानेन, जनिता स्वस्थता परा ॥ २७ ॥ तस्मान्महोपकारीति, किमस्योपकृतं मया? । महानुभावतां मुक्त्वा, मूर्छा | नान्यदस्य प्रवर्तकम् ॥ २८ ॥ एवं चिन्तयतोऽप्यस्य, मूर्छा तत्र कदन्नके । गाढं भावितचित्तत्वान्न कथञ्चिन्निवर्त्तते ॥ २९ ॥ अथ २५-३६ तद्भोजने दृष्टिं, पातयन्तं मुहुर्मुहुः । विदित्वा तदभिप्रायमितरस्तमभाषत ॥ ३०॥-अरे द्रमक! दुर्बुद्धे, किमिदं नावबुध्यसे ? । यदेषा कन्यका तुभ्यं, परमान्नं प्रयच्छति ॥ ३१ ॥ भवन्ति रोराः प्रायेण, बहवोऽन्येऽपि पापिनः । त्वत्समो नास्ति निर्भाग्यो, मयैतत्परिनिश्चितम् ॥ ३२ ॥ यस्त्वं कदन्नलाम्पट्यात्सुधाऽऽकारमिदं मया । दाप्यमानं न गृह्णासि, परमान्नमनाकुलः ।। ३३ ॥ अन्येऽस्मात्सझनो बाह्याः, सत्त्वास्तिष्ठन्ति दुःखिताः । तेषु नैवादरोऽस्माकं, न ते राज्ञाऽवलोकिताः ॥ ३४ ॥ यतस्त्वं भवनं दृष्ट्वा, मनागाहादितो हृदि । तवोपरि नरेन्द्रस्य, दयाऽतोऽस्तीति गम्यते ॥ ३५ ॥ प्रिये प्रियं सदा कुर्युः, स्वामिनः सेवका इति । यो न्यायस्तद्विधानार्थ, वयं त्वयि १ पायितं. २ नाशितसन्तापं. ३ लोचनः प्र. ४ महानसनियुक्तः. ५ दृष्टिनी प्र. ६यत इति शेषः ७ खामिनः प्रिये सेवकाः सदा शिवंत कुर्युरिति. M॥१३॥ उ. भ.२ Jain Educa t ional For Private & Personel Use Only Rivw.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy