Book Title: Unadigana Sutra
Author(s): Hemchandracharya, 
Publisher: Education Society Press

View full book text
Previous | Next

Page 226
________________ १४४ हेमचन्द्रव्याकरणे [८९०-८९९ ग्रो मादिर्वा ॥ ८९०॥ गृत् निगरणे । इत्यस्मादुत् प्रत्ययो भवति स च मकारादिर्वा भवति ॥ गर्मुगरुड आदित्यो मधुमक्षिका तक्षा तृणं सुवर्ण च ॥ गरुद्वोजगरो मरकतमणिर्वेगस्तेजसां वर्तिश्च ।। ८९०॥ शक ऋत् ॥ ८९१ ॥ शक्ट शक्तौ । इत्यस्मादृत् प्रत्ययो भवति || शकृत्पुरीषम् ॥ ८९१ ॥ यजेः क च ॥ ८९२ ॥ यजी देवपूजादौ । इत्यस्मादृत् प्रत्ययो [ भवति ] कश्चान्तदिशो भवति ।। यकृदन्त्रम् ।। ८९२॥ पातः कृथ् ।। ८९३ ॥ पांक रक्षणे । इत्यस्मात्किथ् प्रत्ययो भवति ।। पृथो नाम क्षत्रियाः॥८९३।। शभसेरद् ।। ८९४ ।।। एभ्योद् प्रत्ययो भवति ॥ शृश् हिंसायाम् । शरदृतुः ॥ दृ भये । दरजनपदसमानशब्दः क्षत्रिय[व]|| दरदो जनपदः ।। भस भर्त्सनदीप्योः सौत्रः । भसज्जयनमास्यमामाशयस्थानं च ॥ भषेरपीच्छन्त्येके । भषत् ।। ८९४ ।। तनित्यजियजिभ्यो डद् ॥ ८९५ ॥ एभ्यो डिदद् प्रत्ययो भवति ।। तनूयी विस्तारे । तत् । सः ।। त्यजं हानी । त्यत् । स्यः । एतौ निर्देशवाचिनौ ॥ यजी देवपूजादौ । यत् । यः । अयमुद्देशवाची ॥ ८९५ ॥ इणस्तद् ॥ ८९६ ।। इण्क् गतौ । इत्यस्मात्तद् प्रत्ययो भवति ॥ एतत् । एषः । समीपवाची शब्दः ॥ ८९६॥ प्रः सद् ॥ ८९७ ॥ पृश् पालनपूरणयोः । इत्यस्मात्सद् प्रत्ययो भवति || पर्षसभा ।। ८९७॥ द्रो स्वश्च ॥ ८९८ ।। दृश विदारणे | इत्यस्मात्सद् प्रत्ययो भवति हस्वश्चास्य भवति ॥ दृषत्पाषाणः ।। ८९८ ॥ ___ युष्यसिभ्यां क्मद ।। ८९९ ॥ आभ्यां किन्मद् प्रत्ययो भवति ।। युषः सौत्रः सेवायाम् । युष्मत् । यूयम् ॥ असूच क्षेपणे । अस्मत् । वयम् ॥ ८९९ ॥ Aho I Shrutagyanam

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314