Book Title: Unadigana Sutra
Author(s): Hemchandracharya,
Publisher: Education Society Press
View full book text
________________
१५४
हेमचन्द्रव्याकरणे
[९५९-९६५
व धात्वादिर्भवति || यशो माहात्म्यं सत्त्वं श्री ज्ञानं प्रतापः कीर्तिश्व || एवं शोभनमश्नात्यश्रुते वा । सुयशाः || नागमेवाश्नाति | नागयशाः || बृहदेनोश्नाति | बृहद्यशः || श्रुत एनोति । श्रुतयशाः । एवमन्येपि द्रष्टव्याः || ९५८ ॥ उषेर्ज्ं च || ९५९ ॥
उषु दाहे | इत्यस्मादस् प्रत्ययो [ भवति ] जकारश्चान्तादेशो भवति || ओजो बलं प्रभावो दीप्तिः शुक्रं च ।। ९५९ ॥ स्कन्देर्भ च || ९६० ॥
स्कन्दुं गतिशोषणयोः । इत्यस्मादस् प्रत्ययो [भवति] धकारश्वान्तादेशो अवति || स्कन्धः स्वाङ्गम् ।। ९६० ।।
अवेर्वा || ९६१ ।
अत्र रक्षणादौ । इत्यस्मादस् प्रत्ययो [भवति ] धकारश्चान्तादेशो वा भवति || अधोवरम् || अवो रक्षा ।। ९६१ ।
अमेह चान्तौ || ९६२ ॥
अम गतौ । इत्यस्मादस् प्रत्ययो [ भवति ] भकारहकारौ चान्तौ भवतः || अम्भः पानीयम् || अंहः पापमपराधो दिनश्च ।। ५६२ ।।
अदेरन्ध् च वा ९६३ ॥
भर्दक् भक्षणे | इत्यस्मादस् प्रत्ययो [भव ] त्यन्धादेशश्वास्य वा भवति || अद्यते तदिति । अन्धोन्नम् || अद्यते दृशा मनसा च तदिति । अदः । अनेन प्रत्यक्षं विषमपदिश्यते ।। १३३ ।।
आपोपाप्राप्राब्जाश्च ।। ९६४ ||
आ‡द् व्याप्तौ । इत्यस्मादस् प्रत्ययो [भव ] त्य [प] अन्न अप्सर अब्ज इत्यादेशाश्वास्य भवन्ति || अपः सत्कर्म || अप्नस्तदेव || अप्सरसो देवगणकाः || अब्जो जलजमजयै च रूपम् ॥ ९६४ ॥
उच्यञ्चः क च ॥ ९६५ ॥
उचच् समवाये | भन्नू गतौ च । इत्याभ्यामस् प्रत्ययो [भव ]त्यनयो-. श्व कोन्तादेशो भवति || ओक आलयो जलौकसश्च ॥ भङ्गः स्वाङ्गं रणश्च ।। ९६५ ॥
Aho! Shrutagyanam

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314