________________
१४४
हेमचन्द्रव्याकरणे
[८९०-८९९ ग्रो मादिर्वा ॥ ८९०॥ गृत् निगरणे । इत्यस्मादुत् प्रत्ययो भवति स च मकारादिर्वा भवति ॥ गर्मुगरुड आदित्यो मधुमक्षिका तक्षा तृणं सुवर्ण च ॥ गरुद्वोजगरो मरकतमणिर्वेगस्तेजसां वर्तिश्च ।। ८९०॥
शक ऋत् ॥ ८९१ ॥ शक्ट शक्तौ । इत्यस्मादृत् प्रत्ययो भवति || शकृत्पुरीषम् ॥ ८९१ ॥
यजेः क च ॥ ८९२ ॥ यजी देवपूजादौ । इत्यस्मादृत् प्रत्ययो [ भवति ] कश्चान्तदिशो भवति ।। यकृदन्त्रम् ।। ८९२॥
पातः कृथ् ।। ८९३ ॥ पांक रक्षणे । इत्यस्मात्किथ् प्रत्ययो भवति ।। पृथो नाम क्षत्रियाः॥८९३।।
शभसेरद् ।। ८९४ ।।। एभ्योद् प्रत्ययो भवति ॥ शृश् हिंसायाम् । शरदृतुः ॥ दृ भये । दरजनपदसमानशब्दः क्षत्रिय[व]|| दरदो जनपदः ।। भस भर्त्सनदीप्योः सौत्रः । भसज्जयनमास्यमामाशयस्थानं च ॥ भषेरपीच्छन्त्येके । भषत् ।। ८९४ ।।
तनित्यजियजिभ्यो डद् ॥ ८९५ ॥ एभ्यो डिदद् प्रत्ययो भवति ।। तनूयी विस्तारे । तत् । सः ।। त्यजं हानी । त्यत् । स्यः । एतौ निर्देशवाचिनौ ॥ यजी देवपूजादौ । यत् । यः । अयमुद्देशवाची ॥ ८९५ ॥
इणस्तद् ॥ ८९६ ।। इण्क् गतौ । इत्यस्मात्तद् प्रत्ययो भवति ॥ एतत् । एषः । समीपवाची शब्दः ॥ ८९६॥
प्रः सद् ॥ ८९७ ॥ पृश् पालनपूरणयोः । इत्यस्मात्सद् प्रत्ययो भवति || पर्षसभा ।। ८९७॥
द्रो स्वश्च ॥ ८९८ ।। दृश विदारणे | इत्यस्मात्सद् प्रत्ययो भवति हस्वश्चास्य भवति ॥ दृषत्पाषाणः ।। ८९८ ॥
___ युष्यसिभ्यां क्मद ।। ८९९ ॥ आभ्यां किन्मद् प्रत्ययो भवति ।। युषः सौत्रः सेवायाम् । युष्मत् । यूयम् ॥ असूच क्षेपणे । अस्मत् । वयम् ॥ ८९९ ॥
Aho I Shrutagyanam