________________
८८३-८८९] . उणादिगणविवृतिः।
१४३ पटच्छपदादयोनुकरणाः ॥ ८८३ ॥ पटदित्यादयः कत्प्रत्ययान्ता निपात्यन्तेनुकरण शब्दाश्चैते || पट गतौ । पटत् ।। छुपंत [संस्पर्शे । उकारस्याकारः | छपत् ।। पतु गतौ । पतत् ॥ शृश् हिंसायाम् । शरत् ॥ शल गतौ । शलत् || खट काढ़े । खटत् ।। दहेः प च । दपत् ।। डिपेः । डिपत् ।। खनते रश्च । खरत् ।। खादेः । खादत् ।। सर्व एते कस्यचिविशेषस्य श्रुतिप्रत्यासत्त्यानुकरणशब्दाः । अनुकरणमपि हि साध्वेव कर्तव्यं न यत्किचिद्यथानक्षरमिति शिष्टाः स्मरन्ति ।। ८८३ ।।
हिवृहिमहिपृषिभ्यः कतः ॥ ८८४ ॥ एभ्यः किदतः प्रत्ययो भवति ।। द्रुहोच् जिघांसायाम् । द्रुहन्ग्रीष्मः ।। वृह वृद्धौ । बृहन्प्रवृद्धः । बृहती छन्दः || मह पूजायाम् । महान्पूजितो विस्तीर्णश्च ॥ महान्तौ । महान्तः । महती || पृषू सेचने | पृषत्तन्त्र जलबिन्?चित्रवर्णजातिर्दध्युपसिक्तमाज्यं च । पृषती मृगी | स्थूलपृषतीमालभेत ।। ऋकारो ड्यर्थः ।।८८४।।
गर्डिहू च ॥ ८८५ ॥ गम गतौ | इत्यस्मात्कतप्रत्ययो डिद्भवति द्वे चास्य रूपे भवतः || जगस्थावरजङ्गमो लोकः । जगती पृथिवी ।। ८८५ ॥
भातेर्डवतुः ।। ८८६ ॥ भांक दीप्तौ । इत्यस्माड्डिदवतुः प्रत्ययो भवति ॥ भवान् । भवन्तौ । भवन्तः ।। उकारो दीर्घत्वादिकार्यार्थः ॥ ८८६ ।।
हसरुहियुषितडिभ्य इत् ॥ ८८७॥ एभ्य इत् प्रत्ययो भवति ।। हंग् हरणे | हरिद्धरितो वर्णः ककुब् वायु{गजातिरश्वः सूर्यश्च ।। सं गतौ । सरिनदी । रुहं जन्मनि । रोहिदीरुत्पकारो मत्स्यः सूर्योमिर्मगो वर्णश्च ॥ युषः सौत्रः। योषति गच्छति पुरुषमिति योषित्स्त्री।। तडण् आघाते । तडिविद्युत् ॥ ८८७ ॥
___ उदकात् श्वेडित् ।। ८८८ ॥ उदकपूर्वात् होश्वि गतिवृद्धयोः । इत्यस्माडिदित् प्रत्ययो भवति ॥ उदकेन श्वयति । उदश्वित्तक्रम् ॥ नाम्न्युत्तरपदस्य चेत्युदकस्य उदभावः ॥ ८८८ ॥
म्र उत् ।। ८८९ ॥ मृत् प्राणत्यागे । इत्यस्मादुत् प्रत्ययो भवति ॥ मरुद्वायुर्देवो गिरिशिखरं च ॥ ८८९ ॥
Aho ! Shrutagyanam