________________
१४२ हेमचन्द्रव्याकरणे
[८७५-८-२ भृपणिभ्यामिज भुरवणौ च ।। ८७५ ॥ भूपणिभ्यामिज् प्रत्ययो भवति यथासंख्यं च भुर वण इत्यादेशौ भवतः ॥ भुंग भरणे | भुरिग्बाहुः शब्दो भूमिर्वायुरेकाक्षराधिकपादं चक्छन्दः ॥ पणि व्यवहारस्तुत्योः । वणिग्वैदेहिकः ॥ ८७५ ॥
वशेः कित् ॥ ८७६ ।। वशक् कान्तौ । इत्यस्मात्किदिज् प्रत्ययो भवति ।। उशिकान्त उशीरमग्निगौतमचर्षिः ॥ ८७६ ॥
लड्डेर नलुक च ॥ ८७७ ॥ लघुड् गतौ | इत्यस्मादट् प्रत्ययो [भवति ] नलोपश्चास्य भवति ॥ लघड्डायुर्लघु च शकटम् ।। ८७७ ।।
सर्तेरड् ॥ ८७८ ॥ सुं गतौ । इत्यस्मादड् प्रत्ययो भवति || सरड् वृक्षविशेषो मेघ उष्ट्रजातिव ॥ ८७८ ॥
ईडेरविड् हस्वश्च ।। ८७९ ॥ ईडिक् स्तुतौ । इत्यस्मादविड् प्रत्ययो [ भवति ] हस्ववास्य भवति ॥ इडविडिश्रवाः ॥ ८७९ ।।
विपि म्लेछश्च वा ।। ८८०॥ म्लेछेरीडेश्च क्विपि प्रत्यये वा हूस्वो भवत्यत एव वचनाक्किप् च ॥ म्लेछ अव्यक्तायां वाचि । म्लिट् । म्लेट् । उभयं म्लेच्छजातिः ॥ इड् स्वामी मेदिनी च ।। ईड् स रब ।। ८८० ॥
_तृपेः कत् ।। ८८१ ॥ तपौच प्रीती । इत्यस्मात्किदत् प्रत्ययो भवति ।। तपचन्द्रः समुद्रस्तृणभूमिथ ॥ ८८१ ॥
संश्चवेहत्साक्षादादयः ।। ८८२ ॥ एते कत्प्रत्ययान्ता निपात्यन्ते ।। सम्पूर्थात् चिनोर्डित्समो मकारस्यानुस्वारपूर्वः शकारश्च । संश्चदध्वर्यः कुहकश्च । अनुस्वारं नेच्छन्त्यके । सश्चत्कुहकः॥ विपूर्वात् हन्तेर्डिश्च गुणः । विहन्ति गर्भमिति वेहद्गर्भधातिन्यप्रजा ख्यनाथ ॥ सम्पूर्वात् ईक्षतेः साक्षाभावश्च | साक्षात्समक्षमित्यर्थः ॥ आदिग्रहणात् रेहत् । वियत् । पुरीतदादयोपि ।। ८८२ ॥
Aho I Shrutagyanam