________________
उणादिगणविवृतिः ।
उक्षितक्ष्यक्षीशिराजिधन्विपञ्चिपूषिक्लिदिस्निहिनुमस्जेरन् ॥ ९००॥
एभ्योन्प्रत्ययो भवति || उक्ष सेचने | उक्षा वृषः ॥ तक्षौ तनूकरणे | तक्षा वर्धकिः || अक्षौ व्याप्तौ च । अक्षा दृष्टिनिपातः || ईशिक ऐश्वर्ये | ईशा परमात्मा || राजृग् दीप्तौ | राजेश्वरः || धन्विः सौत्रो गतौ । धत्रु गतौ वा । धन्वा मरुर्धनुश्च || पत्रुड् व्यक्तीकरणे | पञ्च संख्या || पूष वृद्धौ । पूषादित्यः || क्लिदौच् आर्द्रभावे । क्लेदा मुखप्रसेकचन्द्र इन्द्रश्च ॥ हिच् प्रीतौ । स्नेहा स्वाङ्गं सुहृद्दशा च गौः || णुक् स्तुतौ । नव संख्या ।। टुमस्जत् शुद्धौ । मज्जा षष्ठो धातुः ।। ९०० ।।
९०० - ९०३ ]
लुपूयुवृषिशिदेविप्रतिदिविभ्यः कित् ॥ ९०१ ॥
एभ्यः किदन्प्रत्ययो भवति || लूग्श् छेदने । लुवा दात्रं स्थावरश्व || पूग्श् पवने । पुत्रा वायुः || युक् मिश्रणे | युवा तरुणः || वृषू सेचने । वृषेन्द्रो वृषभश्व || दंशं दशने | दश संख्या || थुंक् अभिगमे । युवाभिगमनीयो राजा सूर्यव || दिवूच् क्रीडादौ । दिवा दिनम् । प्रतिपूर्वात् । प्रतिदिवाहोपराह्नश्च ।। ९०१ ॥
श्वन्मातरिश्वन्मूर्धन्प्लीहन्नर्यमन्विश्वप्सन्परिज्वन्महन्नहन्मघवन्नथर्वन्निति || ९०२ ॥
१४५
एतेन्प्रत्ययान्ता निपात्यन्ते || श्वयतेर्लुक् च । श्वा कुकुरः || मातर्यन्तरिक्षे श्वयति । मातरिश्वा वायुः | अत्र तत्पुरुषे कृतीति सप्तम्या अलुप् । इकारलोपश्च पूर्ववत् ॥ मूर्धश्व मूर्च्छन्त्यस्मिन्नाहताः प्राणिन इति मूर्धा शिरः || प्लिहो दीर्घश्व | प्लीहा जठरान्तरवयवः || अरिपूर्वात् अमेर्ण्यन्तात् । अरीनामयतीत्यर्यमा सूर्यः ॥ विश्वपूर्वात् स: किश्च । विश्वप्सा कालोभिर्वायुरिन्द्र || परिपूर्वात् ज्वलतेर्डिच्च । परिज्वा सूर्यश्चन्द्रोग्निर्वायुश्व || महीयतेरीयलोपश्च | महा महत्त्वम् || अंहेर्नलोपश्चांहते | अहो दिवसः || मर्नलोपो चान्तेः । मङ्कत इति मघवेन्द्रः || नञ्पूर्वात् खर्वैः खस्भश्च । न खर्वति । अथवर्षैिर्वेदश्व || इतिकरणादन्येपि भवन्ति ।। ९०२ ।।
षण्यशौभ्यां तन् || ९०३ ॥
आभ्यां तन्प्रत्ययो भवति || षप समवाये । अशौटि व्याप्तौ । सप्त | अष्ट । उभे संख्ये ।। ९०३ ॥
19
Aho! Shrutagyanam