Book Title: Tirthyak Author(s): Diwakar Publisher: Achyut Granthmala View full book textPage 5
________________ श्री. भूमिका दिवाकरकृतिधर्मशास्त्रसुधानिधिर्नाम जयति धर्मशास्त्रस्य किमप्यपूर्व प्रन्यरत्नम्। तस्यैकभागरूपं तिथ्यर्कमिममच्युतप्रन्थमालायां संग्रथ्य सर्वसुलभता नयन्तो वयं भृशं मोदामहे। तिथ्यर्केऽस्मिन् प्रतिपदमारभ्य पौर्णमासीपर्यन्तं सामान्येन विशेषेण च निखिलास्तिथयो निर्णीताः । तेषु विहितं कृत्यं च संक्षेपेयोपवर्णितम् । अयमस्त्यत्र विशेषो यत्प्रतिपनिर्णये समुपक्रान्ते चैत्रशुक्लादयश्चैत्रकृष्णान्ता अब्दभवाः सकलाः प्रतिपदो विषयान्तरव्यवधानमन्तरेण निर्णीताः । एवं सर्वा द्वितीयातृतीयाचतुादयश्चेति। तिथिनिर्णयान्ते इष्टिकाल-ग्रहण-पत्त-मास-मलमास-संवत्सर-कलिवर्य-वर्षवृद्धि-दर्शश्राद्धादयो भृशमपेक्षिता विषया अपि सुस्पष्टतया निर्णीताः। तिथ्यर्केति प्रन्थस्यास्य नूनमन्वर्थ नाम । तिथीनामर्कवत्प्रकाशके केवलेऽप्यस्मिन् प्रन्थेऽवगते तिथिविषयको लेशतोऽपि नादेति सन्देहः । श्रीबालकृष्णात्मजसूनुनिर्मिता वर्षे खवेदाश्वहिमांशुसंयुते । कृतिं विलोक्याऽखिलकालनिर्णय ___ निःशङ्कमाशंसतु पण्डितो जनः ॥ इति वदता ग्रन्थकतापि निरूपितो प्रन्थस्यास्य महिमा। बहुलमर्थमादधानः संक्षिप्तोऽप्ययं प्रन्थः प्रन्थकारस्य रचनाकौशलमनुमापयति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 340