Book Title: Tirthyak
Author(s): Diwakar
Publisher: Achyut Granthmala
View full book text
________________
(..) मासि तातकृतग्रन्थेऽनुक्रमः संप्रदर्श्यते । विदुषां सुखलब्भ्यर्थमनया श्लोकमालया ॥” इति ।
केचन दानचन्द्रिकाकर्ताऽप्ययमेवेति प्रतिपादयन्ति। परन्तु तदज्ञानमूलमेव। यतो दानचन्द्रिकाया दानसङ्क्षपचन्द्रिकाया वा कर्ता दिवाकरभट्टोऽस्ति कालोपनामकः । यद्यपि तस्य पितुरपि नाम महादेवभट्ट एवास्ति, परन्तु तस्य पितामहो रामेश्वरभट्टनामासीत् । । प्रकृतग्रन्थकारस्य तु पितामहो बालकृष्णभट्ट इति प्रतिपादितपूर्वम् ।
प्रणम्य मातरं गङ्गी भैरवं वनशङ्करम् । महादेवाख्यपितरं श्रौतस्मातविशारदम् ॥ दिवाकरण सुधिया सारमुद्धृत्य शास्त्रतः ।
शिष्टानां तन्यते तुष्टयै दानसंक्षेपचन्द्रिका ॥ इति दानसक्षेपचन्द्रिकाया मङ्गलाचरणं विलोक्य तममुच दिवाकरमेकं मन्यमानाः तिथ्यर्क निर्मातुर्दिवाकरस्य मातुर्गङ्गेति नामासीदिति च प्रलपन्ति । दिवाकरभट्टस्य मातामही नीलकण्ठभट्टसहधर्मिणी गङ्गेति' नाम्ना प्रसिद्धा आसीत् । माता गङ्गासीदि यत्र तु नास्माभिः प्रमाणमुपलब्धम् , परन्तु तस्या नाम बाला आसीदिति सप्रमाणं पूर्वमुपन्यस्तम् । इण्डियारे आफिसस्य सूचीपत्रे दानचन्द्रिकाया: परिचयदानावसरे 'दाननियमान प्रदर्शयन् लघुग्रन्थोऽयं वाराणसेयस्य कालोपनामकदिवाकरस्य कृतिः। स खलु दिवाकरो महादेवभट्टस्य नीलकण्ठदुहितुर्गङ्गादेव्याश्च सूनुः सम्भवता बालकृष्णभट्टस्य पात्र प्रासीत्' इति
१-श्रीभास्कर शिवकरं शिरसा प्रणम्य श्रीनीलकण्ठपितरं जननी च गङ्गाम्। तत्पादचिन्तनबढो बुधशङ्कराख्यः संस्कारभास्करममुं वितनाति काश्याम् ।
२-Dana-chandrika, a manual of rules, regarding pious donations by Bhatta Dviakara, surnamed Kāle, of Benares, son of Bhatta Mahadeva (sun of Balakri. shna ?) and Ganga ( daughter of Bhatta Nilakantha, author of the Mayukhas.) [I. O. Cat. Part III p. 548]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 340