Book Title: Tattvarthadhigam Sutram
Author(s): Umaswati, Umaswami, Ramvijay, Chimanlal Dalsukhbhai Gandhi, Kundakundsuri
Publisher: Dhurandharsuri Samadhi Mandir
View full book text ________________
૨૭ર
તત્વાધિગમસૂત્ર સિદ્ધ આત્માનું મુક્તિમાં ગમન -
तदनन्तरमेवोर्ध्व-मालोकान्तात् स गच्छति पूर्वप्रयोगासङ्गत्व-बन्धच्छेदोर्ध्वगौरवैः ॥९॥ कुलालचक्रे दोलाया-मिषां चापि यथेष्यते; पूर्वप्रयोगात् कर्मेह, तथा सिद्धगतिः स्मृता ॥१०॥ मृल्लेपसङ्गनिर्मोक्षा-द्यथा दृष्टाप्स्वलाबुनः; कर्मसङ्गविनिर्मोक्षा-त्तथा सिद्धिगतिः स्मृता ॥११॥ एरण्डयन्त्रपेडासु, बन्धच्छेदाद्यथा गतिः; कर्मबन्धनविच्छेदात्, सिद्धस्यापि तथेष्यते ॥१२॥ ऊर्ध्वगौरवधर्माणो; जीवा इति जिनोत्तमैः; .. अधोगौरवधर्माणः, पुद्गला इति चोदितम् ॥१३॥ यथाधस्तिर्यगूर्वंच, लोष्टवाय्वग्निवीतयः; स्वभावतः प्रवर्तन्ते, तथोर्ध्वगतिरात्मनाम् ॥१४॥ अतस्तु गतिवैकृत्य-मेषां यदुपलभ्यते; . कर्मणः प्रतिघाताच्च, प्रयोगाच्चतदिष्यते ॥१५॥ अघस्तिर्यगथोर्ध्वं च, जीवानां कर्मजा गतिः; ऊर्ध्वमेव तु तद्धर्मा, भवति क्षीणकर्मणाम् ॥१६॥ द्रव्यस्यं कर्मणो यद्व-दुत्पत्त्यारम्भवीतयः; समं तथैव सिद्धस्य, गतिमोक्षभवक्षयाः ॥१७॥ उत्पत्तिश्च विनाशश्च, प्रकाशतमसो यथा; युगपद्भवतो यद्वत्, तथा निर्वाणकर्मणोः ॥१८॥ પછી શીધ્ર ઊર્ધ્વ ગતિ વડે, લોકાન્તમાં જઈને ઠરે, શાશ્વતપણે સિદ્ધિ વરે, ઋદ્ધિ અનંતી ત્યાં ધરે;
Loading... Page Navigation 1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330