Book Title: Tattvarthadhigam Sutra Part 02
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 8
________________ JANWWNMMC ST किञ्चिद् विज्ञापनम् ई NAM चिरत्नग्रन्थरत्नगवेषकाः ! सानन्दं निवेदयामि तत्रभवद्भ्यः शेमुषीशालिभ्यो यदुत बहाल्पसूत्रस्य श्रीतत्त्वार्थाधिगमसूत्रेतिनामधेयस्यास्य ग्रन्थरत्नस्य प्रथमविभागप्रस्तावनाप्रान्ते 'द्वितीयं विभागं यथामति संशोध्य धीधनकरकमले समर्पयिष्यामीति याऽभिलाषा प्रदर्शिता मया तत्पूर्तिः सञ्जाता सम्प्रति देवगुरुकृपाकटाक्षेण / परं न चायं मे प्रयासो विघ्नविकला, यतो लघिष्ठभ्रातुः खुशमनलालस्य वर्षद्वयपर्यन्तानारोग्येण न केवलं नानाकदर्थना मम सञ्जाताः, किन्तु तत्परलोकगमनेन चिरस्थायी मर्मस्पर्शी उद्वेगश्चानुभूतो मया / / किश्च 'श्रीमोहनलालजीजैनसेन्ट्रललाइब्रेरी'सत्कक-संज्ञकप्रत्याधारेणारब्धे अद्यावध्यप्रकाशितैतद्विभागमुद्राप्यमाणपुस्तिकाकर्मणि गरीयांसं तापं समन्वभवम्, अशुद्धिपाठपातादिप्राचुर्यात् / श्रीयुतजीवनचन्द्रद्वारा प्राप्ता श्रीविजयसिद्धिमूरिवरसत्का ख-प्रतिरपि तद्दरीकरणे न प्रथविष्णुरभूत् / अतः प्रायः सार्धषष्ठाध्यायात् गेतिसंज्ञानिर्धारितस्या मदीयजन्मभूमि'सूर्यपुर'स्थ जैनानन्दपुस्तकालय'प्रत्या आधारेण मुद्राप्यमाणा पुस्तिका कथमपि सम्पूर्णतामानिन्ये / ... एवं महता कष्टेन विहितायां पुस्तिकायां 'एशियाटिक सोसायटी ऑफ बेन्गॉल' इति संज्ञया सुप्रसिद्धसंस्थया मुद्रापितस्य घ-संज्ञितस्य पुस्तकस्य साहाय्येन सूत्रभाष्यपाठानां संशोधनसमये महती चिन्ताऽऽपतिता यत् किं करणीयं शेषसन्दिग्धस्थलपरिस्खलनापरिमाजेने / प्रकाशकमहाशयाय निवेदितेऽस्मिन् सङ्कटे तेन कतिपयमासान्तरे कस्याश्चन प्रतेः प्रतिलेखो मह्यं प्रददे / तत्र प्रतिलेखकस्य प्रमादात् लिपेरनभिज्ञानत्वाच शुद्धा अपि पाठा अशुद्धीभूता दृष्टिगोचरमागताः, तथापि किमपि साहाय्यमलेभि ङ-संज्ञकयाऽनया प्रत्या, अतो मूलप्रतिप्रापणे प्रयत्नोऽकारि किन्तु स न सफलीबभूव / ___एवं पुस्तकपञ्चकसाहाय्येन कथमपि निष्पादिता मुद्रणालयोचितपुस्तिका यन्त्रालये एव प्रेषिता / अत्रायं हेतुर्यद् ग्रामानुग्रामविहारकरणप्रवृत्तानामागमोद्धारक-व्याख्याप्रज्ञजैनाचार्यश्रीआनन्दसागरसूरिवराणामेकत्र स्थिरताऽभावात् तत्सविधे पुस्तिकाप्रेषणे नावकाशः, विलम्बकरणं तु दुःसहं द्वितीयविभागपाठनतत्परजनानां वारंवारपृच्छनादित्वात् / . ___सत्यामप्येवंविधपरिस्थित्यां ग्रन्थस्यास्य द्वितीयवेलाशोधनपत्राणि (revised proofs) तु मया प्रहितानि जैनागमप्रसिद्धिसेवाहेवाकिना सार्वसिद्धान्तप्रवीणानां श्रीमतां आनन्द

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 392