Book Title: Tattvarthadhigam Sutra Part 02
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 16
________________ प्रस्तावना - अपरश्च गन्धहस्तिमहाभाष्यकर्तारः श्रीसमन्तभद्राचार्या दिगम्बरीया एवेति सुनिश्चयो न सञ्जायेत निम्नलिखितपदवीक्षणोनोत्पद्यमानशङ्काया निरसनं विना / . "अथो गुरुश्चन्द्रकुलेन्दुदेव-कुलादिवासोदितनिर्ममत्वः। समन्तभद्रः 17 श्रुतदिष्टशुद्ध-तपस्क्रियः पूर्वगतश्रुतोऽभूत् // वृद्धस्ततोऽभूत् किल देवसूरिः 18, शरच्छते विक्रमतः सपादेः।" / सहस्रावधानिश्रीमुनिसुन्दरसूरिकृताया गुर्वावल्या अवतरणमिदम् / अनेन भीसमन्तभद्रसमयो यो ध्वन्यते स एव दिगम्बरसम्प्रदाये श्रीसमन्तभद्रसमयरूपेण सुप्रतिष्ठितः / अतः समुपतिष्ठति शङ्का यदुत किमिमे श्वेताम्बरीया दिगम्बरीया वा / एवं परिस्थित्यां सत्यां दिगम्बरीयश्रीसमन्तभद्राचार्यैर्गन्धहस्तिनाम्नी टीका प्रणीतेति निर्णयात्मकं कथनं दुःशकं प्रतिभाति / / वाचकविचार:- वाचकशब्दस्यार्थत्रितयं समस्ति-(१) पूर्ववित्वं, (2) उपाध्यायत्वं, (3) वाचकवंशीयत्वं च / श्रीउमास्वातीनुद्दिश्य उपाध्यायत्वं न सङ्गच्छते, औचार्यरूपेण तेषां सुप्रसिद्धत्वात् / एते वाचकवंशे सञ्जाता अतस्तेषां वाचकत्वं श्रीधनगिरि-सिंहगिरिवत्, न तु विद्ययेत्यपि पक्षो नादरणीयः तत्समये पूर्वानुच्छेदात् , अनधिकारिषु पदवीप्रदानासम्भवात् , स्वस्य वाचकरूपेण स्वयं ग्रन्थकारकृतनिर्देशाद, घोषनन्दिक्षमणानामेकादशाङ्गवित्त्वरूपेणैव न तु पाचकपदद्वारोल्लेखात् , उच्चैर्नागरस्य वाचकवंशस्य शाखारूपेण कथनस्यानुपलब्धेश्च / पण्डितसुखलालैर्वाचकवंशीयत्वेनैव तेषां वाचकत्वमिति कल्पना कृताऽस्ति, किन्तु साऽसमीचीना भाष्यगतप्रशस्तेः समुचितानवधारणात् तदुत्पत्तेः, अतः प्राथमिक एव अर्थोत्र स्वीकर्तव्यः / किचन कस्यापि श्वेताम्बरमुनिवरस्यास्य विषये विसंवादो दृश्यते / - भाष्यं तत्कर्तृत्वं च .1 "समन्तभद्रः शान्तारिधर्माचार्यों दयानिधिः" इति जिनसहननामगतपद्यार्थसूचितः समन्तभद्रो नात्र विवक्षिता, तस्य 'जिन'शब्दस्य पर्यायत्वात् / महर्षिबुद्धस्यापि पर्यायोऽयम् , परन्तु सोऽप्यत्रानपेक्षणीयः / 1 इमे श्वेताम्बराचार्याः। 2 इयं तु अद्ययावत् नैवोपलब्धा। 4 एतदुल्लेखः समस्ति निम्नलिखितगाथायाम् "वायगवरवंसाओ तेवीसइमेण धीरपुरिसेणं / दुद्धरधरेण मुणिणा पुव्वसुयसमिद्धबुद्धीणं // " ५प्रेक्ष्यतां सभाष्यसटीकस्य तत्त्वार्थाधिगमसूत्रस्य प्रथमो विभागः (पृ. 1, 3, 10) / 6 विलोक्यतामाङ्ग्लभाषानिबद्ध उपोद्धातः (पृ. 5) / * सूत्रभाष्यगतविशिष्टताऽपि व्यनकि तेषां पूर्ववित्त्वम् /

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 392