Book Title: Tattvarthadhigam Sutra Part 02
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust
View full book text
________________ 26 प्रस्तावना (3) श्राद्धानां गुणवतशिक्षात्रतानां यो क्रमोऽस्मिन् ग्रन्थे (7-16) समादृतः स श्वेताम्बरपरम्परायां न नयनगोचरतां गतः। _ अत्रेदं ध्येयं यदुत व्रतग्रहणे क्रमस्य गौणत्वम्, न त्वमुकक्रमेण तद्रहणस्य प्रतिपादनं कुत्रचिद् विद्यते / (4) अष्टमेऽध्याये पविंशे सूत्रे पापपुण्यप्रकृतिविभागप्रदर्शनावसरे पुरुषवेद-हास्यरति-सम्यक्त्वमोहनीयेति प्रकृतिचतुष्कं पुण्यरूपेण व्यावर्णितम् / कर्मप्रकृतिप्रमुखकर्मग्रन्थादिषु नवतत्त्वविषयकेषु विविधेषु च ग्रन्थेषु द्विचत्वारिंशत् पुण्यप्रकृतयः प्रदर्शितास्तत्र न एतच्चतुष्कस्य समावेशः कृतः। एतद्विरोधपरिहारकरणे टीकाकारा नालमिति स्वयं कथयन्ति द्वितीये विभागे १७८तमे पृष्ठे / एषा मान्यताऽऽसीदन्येपामिति तु निर्दिष्टं तैः १७९तमे पृष्ठे / अनुकूलतया यद् वेद्यते-अनुभूयते तत् पुण्यम् , प्रतिकूलतया तु यद् वेद्यते तत् पापमितिकथनपूर्वकं कस्मिंश्चिन्मासिके आगमानुरागीत्युपनामधारिणा केनापि भाष्यगतव्याख्यायाः सङ्गतिः साधितेति मां स्फुरति। __(5) नवमेऽध्याये द्वाविंशे सूत्रे प्रायश्चित्तस्य नवविधत्वं निरदेशि / उत्तराध्ययनादिषु तु तस्य दशविधता प्रोक्ताऽस्ति / परन्त्वेतदभिप्रायभिन्नतयोः समाधानं टीकाकारैः समसूचि २५३तमे पृष्ठे इत्यानन्दस्य प्रसङ्गः। छेदमूलप्रायश्चित्तयोरैक्यं कथश्चित् साधयितुं शक्यते / यतः साधुपर्यायस्यांशतश्छेदनं छेदः, सर्वथा छेदन मूलम् / एवं छेदविवक्षया मूलस्यापि छेदेति सज्ञा स्यात् / अनवस्थाप्यप्रायश्चित्तेऽमुक कालं पर्यन्तं महाव्रतारोपणं न विधीयते इति निष्कर्षः, परिहारेऽप्येवम्। उपस्थापनशब्देन स्थितिकरणात्मकोऽर्थो ध्वन्यते / प्रायश्चित्तस्य चिरकालेन पारं गत्वा स्थयमित्यर्थात्मकः पाराञ्चिकः / अनेनोपस्थापनेऽनवस्थाप्यपाराश्चिकयोरन्तर्भावः / अपरश्च पाराश्चिकस्य प्रायश्चित्तस्य सद्भावश्चतुर्दशपूर्वधरानाश्रित्य / तेषामनुपलब्धौ एतदनुल्लेखोऽपि समीचीन इति केचित् / १सर्वार्थसिद्धौ वार्तिकद्वयेऽपि सूत्रपाठभेदः समस्ति / 2 नवतत्त्वप्रतिपादनपरिष्कृतानां कतिपयानां ग्रन्थानां नामानि सूच्यन्ते, यथाहि(अ) श्रीदेवगुप्तसूरिसूत्रितं नवतत्त्वप्रकरणम् / श्रीअभयदेवसूरिसन्हब्धेन भाष्येण विभूषितम् / (आ) श्रीजयशेखरसूरिविरचितं नवतत्त्वप्रकरणम् / (इ) चिरन्तनाचार्यकृतावचूरि-श्रीसाधुरत्नप्रणीतावचूर्णि-श्रीदेवेन्द्रसूरिनिर्मितवृत्ति-गृहन्नवतत्त्वप्रक्षिप्तगाथातदवचूर्णिविभूषितं नवतत्वप्रकरणम् / (ई) श्रीभाग्यविजयादिकृतनवतत्वस्तधनादिगूर्जरगीर्गुम्फितो ग्रन्थसङ्ग्रहः। एतस्कृथइनामनिर्देशार्थ विलोक्यतां श्रीजैनग्रन्थप्रकाशकसभाद्वारा प्रसिद्धि नीतस्य नवतत्त्वविस्तरार्थस्य विषयानुक्रमणिकायास्त्रयोदशं पृष्ठम् / 3 त्रिंशत्तमेऽध्ययने एकत्रिंशत्तमायां गाथायाम् /

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 392