Book Title: Tattvarthadhigam Sutra Part 02
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust
View full book text
________________ प्रस्तावना (8) "अत एव च भेदः प्रदेशानामवय-1 (8) "यद्यप्यवयवप्रदेशयोर्गन्धहस्त्यावानां च, ये न जातुचिद् वस्तुन्यतिरेकेणोप- | दिपु भेदोऽस्ति / " लभ्यन्ते ते प्रदेशाः, ये तु विशकलिताः परि-| -स्याद्वादमञ्जयों ६३तमे पृष्ठे कलितमूर्तयः प्रज्ञापथमवतरन्ति तेऽवयवाः इत्यत" -तत्त्वार्थ (अ. 5, सू.६) वृत्तौ (पृ. 328) / __ अथ दिगम्बरसाहित्ये गन्धहस्तिपरत्वे कीदृश उल्लेखाः सन्तीति विचार्यते / शकीयदशैकादशशताब्दीयेषु दिगम्बरीयशिलालेखेषु एकस्य सुभटस्य गन्धहस्तीत्युपाधिरवलोक्यते, परन्तु न चायमुल्लेखोनोपयुक्तो विशेषतः / दिगम्बरपरम्परानुसारेण आसमीमांसादिप्रणयिभिः श्रीसमन्तभद्राचार्यैस्तत्त्वार्थसूत्रस्य मोक्षशास्त्रेत्यपराहस्य या टीका निरमायि सा गन्धहस्तिरूपेण प्रसिद्धिं गता, परन्तु प्रमाणोपलब्धि विना कथं स्वीक्रियतेऽभिप्रायोऽयम् / अपरश्च इयं टीका श्रीसमन्तभद्राचार्याणां कृतिरित्यङ्गीकरणेऽपि सर्वार्थसिद्धौ तत्त्वार्थराजवार्तिके वा तस्या नामधेयं किमप्यवतरणं न दृष्टिपथमवतरति, अतः किं फलति ? / यदि साऽभविष्यत् तर्हि सा नाशं गता, न केवलं श्रीअकलङ्कदेवसमयात् प्राक, किन्तु श्रीदेवनन्दीतिमूलनामधेयानां षेष्ठशताब्दीयपूज्यपादसमयादपि / परन्तु न चेयं सम्भावना विश्वासभाजनप्राया, यतः श्रीवीरसेनाचार्यैः ७३८तमे शकसंवत्सरे प्रणीतायां धवलाख्यटीकायां वर्तते निम्नलिखितमवतरणमिति न्यायालङ्कारपण्डितबंशीधराः "उक्तं च पुनर्गन्धहस्तिभाष्ये उपपदो जन्म प्रयोजनं येषां त इमे औपपादिकाः विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धाख्यानि पञ्चानुत्तराणि अनुत्तरे स्वौपपादिकाः ऋपिदासधन्य-सुनक्षत्र कार्तिकेय-नन्द-शालिभद्रा-ऽभय-वारिपेण-चिलातपुत्रा इति / " अनेन गन्धहस्तिभाष्यस्य विद्यमानता श्रीअकलङ्कदेवसत्तासमयरूपवैक्रमीयनवमशताब्दीपर्यन्तेत्यनुमीयते / किञ्च 'गन्धहस्ति'सज्ञात्मिका टीका तत्त्वार्थसूत्रं विहाय अन्यस्य कस्यचिद् दिगम्बरीयसैद्धान्तिकग्रन्थस्यापि न सम्भवतीति कथने निम्नलिखितादुल्लेखादन्यत् किमपि प्राचीनं प्रमाणं वर्तते इति न मे श्रुतिपथं दृष्टिगोचरतां वा गतम् "भगवद्भिमास्वातिपादैराचार्यवरासूत्रितस्य तत्त्वार्थाधिगमस्य मोक्षशास्त्रस्य गन्धहस्त्याख्यं महाभाष्यमुपनिवभन्तः स्याद्वादविद्याग्रगुरवः श्रीस्वामिसमन्तभद्राचार्याः / " 1 श्रीहेमचन्द्रसूरिवरनिर्मिताया स्याद्वादकारिकेत्यपराहृया अन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाया वृत्तिरियं श्रीमलिषेणसूरिप्रणीता। 2 प्रेक्ष्यतां दिगम्बरसाहित्यगवेषकश्रीयुतजुगलकिशोररचितः स्वामिसमन्तभदनामको निवन्धः (पृ. 141-143) /

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 392