Book Title: Tattvarthadhigam Sutra Part 02
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust
View full book text
________________ प्रस्तावना " परब्रह्माकारं सकलजगदाकाररहितं सरूपं नीरूपं सगुणमगुणं निर्विभु-विभुम् / विमिमं सम्भिन्न विगतमनसं साधुमनसं पुराणं नव्यं चाधिहृदयमधीशं प्रणिदधे // " इह हि निःसीमसंसारपारावारनिमज्जनत्रस्तानामाधिव्याध्युपाधिग्रस्तानां परिस्फुरज्जन्मजरामरणमोहानां करालकलिकालकवलितशेमुषीसन्दोहानां सङितरुचीनां भव्यसत्त्वानां परोपकारसम्पादनमेव सर्वोत्तमा स्वार्थसिद्धिः सौजन्यसौशील्यसारल्यशेवधीनां सार्वसिद्धान्तसारपीयूषपानपीवराणां श्रीजिनेश्वरशासनप्रभावनाप्रभाऽऽविर्भावभास्कराणामिति मत्वा परोपकृतिकर्मकर्मठेः श्वेताम्बरपरम्परानुसारेण पञ्चशतप्रकरणप्रणेभिरप्रतिमप्रतिभामण्डलैर्वाचकाखण्डलैः श्रीउमास्वातीतिसुभगनामधेयैन केवलं सन्दृब्धस्तत्त्वार्थाधिगमसूत्रनामा व्यक्तविषयात्मको महामूल्यो ग्रन्थः, किन्तु सङ्कलितोऽयं भवसन्ततिदारिकाभिरशेषक्लेशनिराकारिकाभिरुपोद्घातरूपिकाभिः सम्बन्धकारिकाभिः, समलङ्कृतश्च गीर्वाणगीर्गुम्फितेन सूत्रार्थप्रदीपकेन सरलसरसमुश्लिष्टस्वोपज्ञभाष्येणेति समवगम्यते प्रथमविभागगवेषकैः। अद्याद्ययावदनुभृतस्यास्य ग्रन्थस्य प्रस्तावना प्रस्तूयते प्रतिज्ञापालनार्थ मन्दमेधसाऽपि मया / / अवतार्यते तावन्मीमांसाभूमिकायां प्रश्नोऽयं यत् प्रथमं केन जैनमुनिरत्नेन संस्कृतभाषायां सिद्धान्तप्रणयनमकारि / प्रत्येकतीर्थङ्करशासने द्वादशाङ्गी रच्यते गणधरनामकर्मोदयवर्तिभिर्वीजबुद्धिभिर्गणधरदेवैः / तत्र दृष्टिवादसञकं द्वादशाङ्गं प्रायो गीर्वाणगीर्गुम्फितं समस्ति / उक्तं च श्रीवर्धमानसूरिभिरवतरणरूपेण आचारदिनकरे निजप्रणयने...... "मुत्तूण दिहिवायं कालियउकालियंगसिद्धतं / ___ थीबालवायणत्थं पाययमुइयं जिणवरेहिं // " - अनेन निरस्यते मतमिदं केषाश्चिद् यदुत श्रीवीरनिर्वाणसमयानन्तरमेव जैनैः संस्कृतभाषाज्ञान सम्पादितम् / अपरश्च एतन्निरसने निम्नलिखिते गाथे अप्युपयुक्ते "सकया पागता चेव दुहा भणितीओ आहिया / सरमंडलम्मि गिजते पसत्था इसिभासिता // " -स्थानाङ्गे सप्तमे स्थानके ३९४तमे पत्रे ... 1 श्रीसिद्धसेनगणिवरैर्भाष्यकारिकेति नाम निरदेशि विंशतितमे पृष्ठेः। 2-3 छाया-मुक्त्वा दृष्टिवादं कालिकोत्कालिकाझसिद्धान्तम् / स्त्रीबालवाचनार्थ प्राकृतमुदितं जिनवरैः // संस्कृता प्राकृता चैव द्विधा भणिती आहिते। स्वरमण्डले गीयेते प्रशस्ते ऋषिभाषिते //

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 392