Book Title: Tattvarthadhigam Sutra Part 02
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 11
________________ प्रस्तावना "सेकया पायया चेव भणिईओ होति दोण्णि वा / __सरमण्डलम्मि गिजते पसत्था इसिभासिया // " -अनुयोगद्वारे सू० 127, १३१तमे पत्रे एवं परिस्थित्यां सत्यां गीर्वाणगिरायां सिद्धान्तप्रणयनमनादिकालीनम् , यत् अनन्तानि तीर्थानि प्रवर्तितान्यद्यावधि / अतः केन प्रथममेवं कृतमिति प्रश्नस्य कोऽवकाशः / किञ्च श्रीमहावीरस्वामिसत्तायां श्रीइन्द्रभूतिप्रमुखैर्गणधरै रचितानि चतुर्दश पूर्वाणि विहायास्या हुण्डावसर्पिण्या अस्मिन्नरे गीर्वाणभाषामयः कः प्रथमो ग्रन्थ इति जिज्ञासातृप्त्यर्थं यथेष्टसाधनामामभावा, परन्तु वर्तमानकाले समुपलब्धं साहित्यमाश्रित्य तत्त्वार्थाधिगमसञ्ज्ञकमिदं शास्त्रं प्राथमिकं स्थानमलङ्करोतीति कथने न मनागपि सन्देहो वर्तते, सर्वेषां पूर्वाणामुच्छेदत्वात् / बालस्त्रीमन्दमूर्खानामप्युपकारिणी प्राकृतभाषां परिहाय कस्माद् हेतोर्गीर्वाणगिराऽऽश्रयि तरवार्थसूत्र-प्रशमरतिप्रभृतिग्रन्थग्रथनकलानर्तकीनाट्याचार्यैर्वाचकवर्यैरित्यपि प्रश्नः समुपजायेत, किन्तु तस्य सन्तोषकारकमुत्तरं दातुं नाहमलम् / वाचकवारिधिसत्तासमये संस्कृतभाषायाः प्राधान्यं, दर्शनान्तरीयसाहित्यस्य एतद्भाषाद्वारा सुप्रचारस्यावलोकनं, तेपां संस्कृतभाषाभाषिक्षेत्रेषु विहारः, तेषां ब्राह्मणजातिरित्यादिसम्भावनारूपप्रेरकवलेन तैस्तत्त्वार्थपत्रस्य स्वोपज्ञभाष्यपूर्वकस्य प्रणयनं कृतं संस्कृतभाषायामिति सम्भाव्यते।' १छाया प्राय उपरिवत् / भन्तिमाश्चतुर्दशपूर्वधराः श्रीस्थूलभद्राः, प्रान्तिमा दशपूर्वधराः श्रीवज्रस्वामिनः, सार्धनवपूर्वधराः श्रीभार्यरभितसरयोऽन्त्याचकपूर्वविदः श्रीदेवर्द्धिगणिक्षमाश्रमणाः / श्रीवीरनिर्वाणात् वर्षसहस्र व्यतीते पूर्वविच्छेद इति भगवत्यां (श. 2, उ. 8, सू. 678 ) निर्देशः / स चायम् "जंबुद्दीवे णे भंते | दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं केवतियं कालं पुव्वगए अणुराजिस्सति / / गोयमा! णं दीवे भारहे वासे इमीसे उ(ओ?)स्सप्पिणीए ममं एग वाससहस्सं पुव्वगए अणुसजिस्सति / " [जम्बूद्वीपे भदन्त / द्वीपे भारते वर्षेऽस्यामवसर्पिण्या देवानुप्रियाणां कियन्तं काले पूर्वगतमनुसंक्ष्यति। गौतम / द्वीपे भारते वर्षेऽस्यामवसर्पिण्या ममैकं वर्षसहस्रं पूर्वगतमनुसंक्ष्यति / ) किश्च निम्नावतारितोऽप्युल्लेखो वरीवर्तिः "वोलीणमि सहस्से, वरिसाणं वीरमोक्खगमणाउ / उत्तरवायगवसभे, पुन्वगयस्स भवे छेदो // वरिससहस्से पुण्णे, तित्थोग्गालिएँ वद्धमाणस्स / नासि ही पुन्वगतं, अणुपरिवाडिऍ जं जस्स // " [व्यतीते सहा वर्षाणां वीरमोक्षगमतात् / उत्तरवाचकवृषभे पूर्वगतस्य भवेत् छेदः // वर्षसहस्र पूर्णे तीर्थोद्गालिते वर्धमानस्य / नाशि ही पूर्वगतमनुपरिपाटितो यद् यस्य // ] प्राकृतभाषायां ये साम्प्रदायिका विचारा सुबद्धा आसंस्ते गीर्वाणगिरायां सुप्रसन्नसदिक्षप्तसरलशद्ध ल्या वाचकवयः सफलं गुम्फिताः। अनेनानुमीयते यदुत वाचकवयेसमयात् प्राकालीना जैनमुनिपुङ्गवाः संस्कृतभाषायां प्रन्थनिर्माणे न केवलं समर्था आसन्, किन्त्वेतस्यां दिशि सफलः प्रयासोऽपि तैः कृतः स्यातू /

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 392