Book Title: Tattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Author(s): D Srinivasachar, S Narsimhachar
Publisher: D Srinivasachar, S Narsimhachar

View full book text
Previous | Next

Page 6
________________ vi इव इत्यनया हार्दानुग्रहविभवप्रसराभया जयाशिषा पर्यवर्ध्यत। हिततमबन्धुवर्गगणनीयं मातुलकुलं जानता मा च भूदयं विविधीलजनतालोचनपात्रं अस्यां दशायामिति परिकलयता तन्मातुले निर्विशङ्कमविकलं च आचार्यकनिर्वहणधुरन्धरे आत्रेयरामानुजाचार्य निभृतं दुराभिभवधीविभवोऽयं अविकलं शिक्षणीय इत्यर्पणेन चान्वगृह्यत ।। ऊनविंशवया एव चायं गुरुः सुगृहीतधृतसाङ्गोपाङ्गत्रयतिच्छिराः निर्विशयनिर्णीतन्यायविस्तरविमलाशयः सदैवान्यूनषोडशकल चन्द्रमाः प्राह्लादयत प्राज्ञपरिषदः ॥ न खल्विदं दुष्करं नाम तादृशस्य प्रथमग्रहणमात्रसमासाद्यदृढतरसंस्कारवैभवस्य निर्विघ्नमेवानिशं स्वोचितानाखिलान् समयान् नवनवग्रहणैः पावयतोऽभूतप्रज्ञापरिपाकसारावतारस्य पुरुषधौरेयस्य । न ह्येवंविधं पुरुषप्रकाण्डमृते-- अध्यक्षं यच्छ्रतं वा लघु भवति तदित्यादिमो वादिमोहः तत्वोदको न तर्काः तदिह जगति किं मेधया साधयामः । इति धीरवाणी प्रमाणसंप्रदायनिर्बन्धमधिकृत्य प्रवर्तेत! अव्याजभगवदनुग्रहनिरवग्रहजाग्रत्प्रज्ञागरीयसा ह्यनेन गुरुणा अनाकुलकलितपञ्चकालकृत्येन अविकलं सलीलमेव च न्यायविस्तर मीमांसां मन्त्रार्थरहस्यानि च प्रवचनेनानुशीलतया अक्षरशोऽर्थतश्च अनुवादपूर्वकं प्रमाणभावेन स्वानुगुणं समर्थनेन आन्यपर्यादिना निर्वाहेण च प्रचारमनीयन्त सर्व एव प्रायः प्रबन्धाः प्राचामाचार्याणाम् । य एते १. न्यायतत्वम्, २. योगरहस्यं च--श्रीभाष्यकृतां प्राचार्यस्य यामुनमुनेः पितामहस्य नाथमुनेः कृती। य एव च योगनिष्ठायाश्चरमा स्थितिभूमिरित्याचक्षते गुरुपरम्पराविदः ॥

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 746