Book Title: Tattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Author(s): D Srinivasachar, S Narsimhachar
Publisher: D Srinivasachar, S Narsimhachar

View full book text
Previous | Next

Page 18
________________ xviii संगतिः सत्वानां तृष्णीयाः कारणाभिनिवेशश्च एतद्धो ब्राह्मण त्वदीयं लोकायतं न मदीयम् ।। (लं.सू.पृ.१७८) इत्यादि तत्रतत्रोद्घोषितवता स्वीय दर्शनं विहाय दर्शनसरणिस्सर्वा लोकायतव्यपदेशगोचर इति मन्यमानेन अतत्वपरवञ्चनौपयिक विचित्रपदघटनात्मकशुष्कतर्कवाङ्मयपरत्व लोकायतशब्दस्योपपादितंभवति ॥ देशिकमणिनापि सर्वार्थसिद्धौ ‘चत्वार्येव तत्वानि । अधिकानि तु तावन्मात्रविभागोोद्देशादपोढानि अतिरिक्तचेतननिषेधाच्च' इति तदीयतत्वनिर्देशमनुवदता प्रात्यक्षिकातिरिक्तप्रमेयाक्षेपाभिप्रायकवादरूपता लोकायतदर्शने प्रदर्शिता। परमतभङ्गे च--(७४ पृ) माध्यमिकभङ्गाधिकारे ' कस्यचित् परस्परविरुद्धनानामतप्रलापेषु ऐदम्पर्यनियामकविरहात् सर्वेषामेव तेषां भ्रमादिरेव मूलं पर्यवस्यति' इति वदता आचार्येण बुद्धस्य लङ्कावतारसूत्रेषु कतिपयवाक्यानां सिद्धान्तपरतया दृश्यमानानां सत्त्वेऽपि पूर्वोत्तरनिरूपणदौष्ठुल्यविहतार्थतयाऽनुपादेयतापर्यवसानबोधनेन तत्रत्यं दर्शनान्तराणां लोकायतत्वकथनमप्यनूद्य निरस्तं भवति ॥ एवं तत्रैव (५९) आस्तिक्यावहेलनवचांस्यनुवदता च निरर्थकवैतण्डिककथामात्रत्वं स्पष्टमुक्तं भवति ॥ ... लौकायतिकपदं च लोकायतमधीते इति व्युत्पत्त्या प्रवर्तते इति ऋतूक्थादिगणे लोकायतपदं पठतः पाणिनेरभिमतमिति निर्विवादम् । लोकायतशब्दश्च लोके आयतं इति विग्रहेण सर्वजनविदितं प्रियमित्यर्थको भवति । सर्वजनप्रियता च निर्विशयपरिग्रहानुकूलप्रतिपत्तिकरत्वरूपा आमुष्मिकार्थकथादूरतयोपपन्ना भवितुमर्हति । 'प्रत्यक्षं तद्विशेषरूपमन्वयव्यतिरेकदर्शनं च परिगृह्य प्रवृत्तं शास्त्रम्' इति ‘अर्थकामरूपपुरुषार्थयुग्मानुकूलनीतिस्तेयकामशास्त्राद्यैककण्ठ्येन परमहितमिदं शास्त्रम्' इति · धर्मविरुद्धार्थकामयोरननुतापिनः निरन्तरं तत्र प्रवृत्ता इह दर्शने समयिनः' इति च शास्त्रप्रवृत्तिकम समानैदम्पर्यशास्त्रान्तरैककण्ठ्यं

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 746