________________
xviii संगतिः सत्वानां तृष्णीयाः कारणाभिनिवेशश्च एतद्धो ब्राह्मण त्वदीयं लोकायतं न मदीयम् ।। (लं.सू.पृ.१७८)
इत्यादि तत्रतत्रोद्घोषितवता स्वीय दर्शनं विहाय दर्शनसरणिस्सर्वा लोकायतव्यपदेशगोचर इति मन्यमानेन अतत्वपरवञ्चनौपयिक विचित्रपदघटनात्मकशुष्कतर्कवाङ्मयपरत्व लोकायतशब्दस्योपपादितंभवति ॥
देशिकमणिनापि सर्वार्थसिद्धौ ‘चत्वार्येव तत्वानि । अधिकानि तु तावन्मात्रविभागोोद्देशादपोढानि अतिरिक्तचेतननिषेधाच्च' इति तदीयतत्वनिर्देशमनुवदता प्रात्यक्षिकातिरिक्तप्रमेयाक्षेपाभिप्रायकवादरूपता लोकायतदर्शने प्रदर्शिता। परमतभङ्गे च--(७४ पृ) माध्यमिकभङ्गाधिकारे ' कस्यचित् परस्परविरुद्धनानामतप्रलापेषु ऐदम्पर्यनियामकविरहात् सर्वेषामेव तेषां भ्रमादिरेव मूलं पर्यवस्यति' इति वदता आचार्येण बुद्धस्य लङ्कावतारसूत्रेषु कतिपयवाक्यानां सिद्धान्तपरतया दृश्यमानानां सत्त्वेऽपि पूर्वोत्तरनिरूपणदौष्ठुल्यविहतार्थतयाऽनुपादेयतापर्यवसानबोधनेन तत्रत्यं दर्शनान्तराणां लोकायतत्वकथनमप्यनूद्य निरस्तं भवति ॥
एवं तत्रैव (५९) आस्तिक्यावहेलनवचांस्यनुवदता च निरर्थकवैतण्डिककथामात्रत्वं स्पष्टमुक्तं भवति ॥
... लौकायतिकपदं च लोकायतमधीते इति व्युत्पत्त्या प्रवर्तते इति ऋतूक्थादिगणे लोकायतपदं पठतः पाणिनेरभिमतमिति निर्विवादम् । लोकायतशब्दश्च लोके आयतं इति विग्रहेण सर्वजनविदितं प्रियमित्यर्थको भवति । सर्वजनप्रियता च निर्विशयपरिग्रहानुकूलप्रतिपत्तिकरत्वरूपा आमुष्मिकार्थकथादूरतयोपपन्ना भवितुमर्हति । 'प्रत्यक्षं तद्विशेषरूपमन्वयव्यतिरेकदर्शनं च परिगृह्य प्रवृत्तं शास्त्रम्' इति ‘अर्थकामरूपपुरुषार्थयुग्मानुकूलनीतिस्तेयकामशास्त्राद्यैककण्ठ्येन परमहितमिदं शास्त्रम्' इति · धर्मविरुद्धार्थकामयोरननुतापिनः निरन्तरं तत्र प्रवृत्ता इह दर्शने समयिनः' इति च शास्त्रप्रवृत्तिकम समानैदम्पर्यशास्त्रान्तरैककण्ठ्यं