________________
xix
शास्त्राधिकारं च तदीयमनुवदता लोकायतपदव्युत्पत्तिः पुष्कलाथैवोपपा. दिता भवति । लोकायतदर्शनं च बृहस्पतेस्सूत्रनिबन्धात्मकं चार्वाकनाम्ना भाष्यप्रणयनपूर्वकं प्रचारितमिति तत्कृत एव च चार्वाकमतमिति प्रथाविशेषः । चार्वाकस्य भाष्यप्रणेतृत्वं च परमतभङ्गे उक्तमाचार्यवर्येण (५८ पृ) ॥
चार्वाकतिहासश्च महाराष्ट्रज्ञानकोशनाम्नि भाषापदकोशे एवं दर्शितः---' अवन्तीदेशान्तर्गतक्षिप्राचामलानद्योस्संगमप्रदेशे शङ्खोद्धारनाम्नि क्षेत्रे कल्यादि युधिष्ठिरादि वा ६६०-६६१ तमे प्रभवसंवत्सरे उत्तरायणे वैशाखशुद्धपौर्णमास्यां रविवार मध्याह्नसमये चार्वाकनाम्नः नास्तिकतत्वज्ञस्य जन्मेति ; युधिष्ठिर ७२५ तमे श्रीमुखसंवत्सरे भाद्रपदशुद्धद्वादशीसोमवासरे पुष्करक्षेत्रस्थयज्ञनामकगिरौ दक्षिणायने चार्वान् कस्य मरणम्' इति । जैनग्रन्थान्ते ग्रन्थनाम किमप्यनिर्दिश्य चरितमेत दुक्तं कोशकारेण संगृहीतमिति च आकरनिर्देशोऽपि कृत इव । '
संपूर्णो लोकायतसूत्रनिबन्धः केन वोपलब्ध इति न जानीमः । द्वित्राण्येव परं सूत्राणि प्राय उदाहरन्तो व्याख्यानिबन्धकाराः देहात्मवादपणे विजम्भन्ते ॥
न्यायदर्शने च गौतमः ‘अहेतुतो भावोत्पत्तिः कण्टकतैक्ष्ण्यादिवत्' 'पद्मसंमीलनविकारवत्तद्विकारः' इति सूत्राभ्यां कार्यकारणभावाद्यपलापरूपस्तर्कः चार्वाकीय एवानूदितः ॥
'पृथिव्यप्तेजो वायुरिति तत्वानि' तेभ्यश्चैतन्यं ' ' किण्वादिभ्यो मदशक्तिवत्' इति त्रीण्येव सूत्राणि प्रायो दर्शनव्याख्यानिबन्धेषूपलभ्येरन् । तत्वसंग्रहपश्चिकायां कमलशीलेन ‘तत्समुदाये विषयेन्द्रियसंज्ञा' 'परलोकस्याभावात्परलोकिनोऽभावः' 'कायादेव ततो ज्ञानम् '. इति त्रीणि चान्यान्यपि सूत्राणि दार्शतानि ; तेभ्यश्चैतन्यमिति सूत्रे
6*