________________
xvii
इति । आगमोपज्ञमेव च प्रसरति शुष्कतार्किकब्राह्मणप्रवादः । यथा
किं ते कृण्वन्ति कीकटेषु गावः ? नाशिरं दुहे न तपन्ति गावः । आनो भर प्रमगन्दस्य वेदो नैचाशाखं मघवन् रन्धयानः ॥
(ऋग्वेदे अष्टक ३. अ. ३. व. २१) व्याख्याता चेयं ऋक् (पू. मी. १-२-३९ सू.) कुमारिलै:
अयं हि दृढनाध्येतृणां स्मरणेन विश्वामित्रस्य ? गम्यते । तेन किल कर्मार्थ धनं प्रार्थयमानेन इन्द्रोऽभिहितः-त्रैलोक्याधिपते याः कीकटेषु जनपदेषु गावस्तास्तव किं कुर्वन्ति ? ते हि नास्तिकाः किं क्रतुनेति वदन्तो न किञ्चित्कर्मानुतिष्ठन्ति । सोमसंस्कारार्थं न दुहन्ति न धर्मतपने पयोदानेन साधनी भवन्ति । तस्मात्प्रमगन्दस्य कीकटाधिपतेर्यद्वेदो धनं तदस्माकं नैचाशाख नगरमाभर ।। इति । लकावतारसूत्रेषु च बुद्धेन-(लं.सू.पृ. ३४६)
लोकायतमिदं सर्वं यत्तीयैर्देश्यते मृषा । एक सिद्धान्तं लोकायतविवर्जितः शिष्यवर्गस्य देशेमि ।।
(ल. सू. पृ. ३४६) लोकायतमेवानेकैराकारैः कारणमुखशतसहस्त्रैर्देशयन्ति ।
(लं. सू. पृ. १७५) लोकायतो विचित्रमन्त्रप्रतिभानो न सेवितव्यो न भक्तव्यो न पर्युपासितव्यो यं सेवमानम्य लोकामिषसंग्रहो भवति न धर्मसंग्रहः ॥(लं.सू.पृ. १७३)
शरीरबुद्धिविषयोपलब्धिमानं हि महामते लोकायतिकैर्देश्यते विचित्रैः पदव्यञ्जनैः ; शतसहस्रं वै लोकायतम् ॥ (लं.सू.पृ. १७४) यथा तीर्थकराणां आत्मेन्द्रियार्थसनिकर्षात्त्रयाणां न तथा मम ॥
(लं.सू.पृ.१७७) संक्षेपतो ब्राह्मण यत्र विज्ञानस्यागतिर्गतिरुपपत्तिः प्रार्थनाभिनिवेशाभिषको दर्शनं दृष्टिः स्थानं परामृष्टिः विचित्रलक्षणाभिनिवेशः
SARVARTHA.