________________
XVI
इति भर्तृहरिणा-~
. मीमांसा काले लोकायतीकृता ।
तामास्तिकपथे नेतुम् ॥ इति सामान्यतः कुमारिलैः ; विशिष्य च तैरेव --~--
रागद्वेषमदोन्मादप्रमादालस्यलुब्धताः ।
क्क वा नात्प्रेक्षितुं शक्याः स्मृत्यप्रामाण्यहेतवः ॥ इति सर्वत्रानाश्वासमाशय
अदुष्टेन तु चित्तन सुलभा साधुमूलता । इति तत्परिहारमुक्ता
का वा धर्मक्रिया यस्यां दृष्टो हेतुर्न युज्यते । लोकायतिकमूर्खाणां नैवान्यत्कर्म विद्यते ।। यावत्किञ्चिददृष्टार्थ तद्दष्टार्थं हि कुर्वते ! । वैदिकान्यपि कर्माणि दृष्टार्थान्येव ते विदुः ।। अल्पेनापि निमित्तेन विरोधं योजयन्ति ते । तेभ्यश्चेत्प्रसरो नाम दत्तो मीमांसकैः क्वचित् ॥
न च कंचन मुञ्चेयुः धर्ममार्ग हि ते तदा! । इति सर्वत्रानाश्वासं विप्रतिपत्तिं वेदश्रद्धाया अप्यन्यथासिद्धिं अन्यच्चान्यच्च शुष्कतर्कावलम्बनेन वदन्तो लोकायतिका मूर्खा एवोक्ताः । अत एव लोकायतस्य वितण्डाशास्त्रत्वव्यवहार उपपद्यते वौद्धानाम् । वितण्डसत्थं विजेयं यं तं लोकायतम् ।
__ (अभिधानप्रदीपिका) (वितण्डाशास्त्रं विज्ञेयं यत्तल्लोकायतम् । (इति छाया) इति । तदेतज्जयन्तभट्टोप्याह
न च लोकायते किश्चित्कर्तव्यमुपदिश्यते । वैतण्डिककथैवासौ न पुनः कश्चिदागमः ॥