________________
बार्हस्पत्यस्तु नास्तिकः । (हेमचन्द्रीयाभिधानाचिन्तामणौ)
नास्तिको वेदनिन्दकः ॥ (मनुस्मृतौ) इत्येवमादिभिः ग्रान्थिकव्यवहारैः लोकायतशब्दः नास्तिकजनवाचितया प्रवर्तमानो विज्ञायते ॥
योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद्दिजः । इति मनुवचनालोचनेन च नास्तिकपरिगृहीतं शारूग्मपि हेतुशास्त्रमिति व्यपदेश्यं ज्ञायते । श्रुतिस्मृतिन्यायविरुद्धशास्त्राभिज्ञो हैतुक इति कुल्लुकभट्ट आह--
नानाशास्त्रेषु मुख्यैश्च शुश्राव स्वनमीरितम् । लोकायतिकमुख्यैश्च समन्तादनुनादितम् ॥
(महाभारत १-७-४६) ऐक्यनामात्मसंयोगसमवायविशारदैः । लोकायतिकमुख्यैश्च शुश्रुवुस्स्वनमीरितम् ॥
(हरिवंश २४९-३०) इत्यादिवचनालोचने तार्किकमात्रपरतापि विज्ञायते ।।
कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे! । अनर्थकुशला घेते बालाः पण्डितमानिनः ॥ धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः । बुद्धिमान्वीक्षिकी प्राप्य निरर्थं प्रवदन्ति ते ।।
. (श्रीमद्वाल्मीकिरामायणे २ का. १०० सर्गे) इति श्रीमद्वाल्मीकिवचनालोचनेन शुष्कतार्किकपरताप्यवसीयते ।।
नच ब्राह्मणा वेदविदश्शुष्कतार्किका इति कथमिदं घटत इति शङ्कनीयम् ; यतः--
वैजिसौभवहर्यक्षैः शुष्कतर्कानुसारिभिः । आर्षे विप्लाविते ग्रन्थे संग्रहप्रतिकञ्चुके ॥