________________
vi
इव
इत्यनया हार्दानुग्रहविभवप्रसराभया जयाशिषा पर्यवर्ध्यत। हिततमबन्धुवर्गगणनीयं मातुलकुलं जानता मा च भूदयं विविधीलजनतालोचनपात्रं अस्यां दशायामिति परिकलयता तन्मातुले निर्विशङ्कमविकलं च आचार्यकनिर्वहणधुरन्धरे आत्रेयरामानुजाचार्य निभृतं दुराभिभवधीविभवोऽयं अविकलं शिक्षणीय इत्यर्पणेन चान्वगृह्यत ।।
ऊनविंशवया एव चायं गुरुः सुगृहीतधृतसाङ्गोपाङ्गत्रयतिच्छिराः निर्विशयनिर्णीतन्यायविस्तरविमलाशयः सदैवान्यूनषोडशकल चन्द्रमाः प्राह्लादयत प्राज्ञपरिषदः ॥
न खल्विदं दुष्करं नाम तादृशस्य प्रथमग्रहणमात्रसमासाद्यदृढतरसंस्कारवैभवस्य निर्विघ्नमेवानिशं स्वोचितानाखिलान् समयान् नवनवग्रहणैः पावयतोऽभूतप्रज्ञापरिपाकसारावतारस्य पुरुषधौरेयस्य ।
न ह्येवंविधं पुरुषप्रकाण्डमृते-- अध्यक्षं यच्छ्रतं वा लघु भवति तदित्यादिमो वादिमोहः
तत्वोदको न तर्काः तदिह जगति किं मेधया साधयामः । इति धीरवाणी प्रमाणसंप्रदायनिर्बन्धमधिकृत्य प्रवर्तेत!
अव्याजभगवदनुग्रहनिरवग्रहजाग्रत्प्रज्ञागरीयसा ह्यनेन गुरुणा अनाकुलकलितपञ्चकालकृत्येन अविकलं सलीलमेव च न्यायविस्तर मीमांसां मन्त्रार्थरहस्यानि च प्रवचनेनानुशीलतया अक्षरशोऽर्थतश्च अनुवादपूर्वकं प्रमाणभावेन स्वानुगुणं समर्थनेन आन्यपर्यादिना निर्वाहेण च प्रचारमनीयन्त सर्व एव प्रायः प्रबन्धाः प्राचामाचार्याणाम् । य एते
१. न्यायतत्वम्, २. योगरहस्यं च--श्रीभाष्यकृतां प्राचार्यस्य यामुनमुनेः पितामहस्य नाथमुनेः कृती। य एव च योगनिष्ठायाश्चरमा स्थितिभूमिरित्याचक्षते गुरुपरम्पराविदः ॥