________________
vii
: १. श्री गीतार्थसंग्रहः, २. आगमप्रामाण्यं, ३. आत्मसिद्धिः, ४. ईश्वरसिद्धिः, ५. संविसिद्धिः ६. महापुरुषनिर्णयः, ७. स्तोत्ररत्नम्. ८. श्रीस्तुतिः ---श्रीभाष्यकृतां परमाचार्यस्य श्रीमतो यामुनमुनेः कृतयः ॥
श्रीभाष्यादिनवग्रन्थी च श्रीमतां रामानुजाचार्याणाम् ।
त्रींश्च गुरूनेतान् विशिष्टाद्वैतसंप्रदायप्रतिष्ठापका इति तत्तत्कृतं प्रतिष्ठापनाकारं प्रदय-~
नाथोपझं प्रबृत्तं बहुभिरुपचितं यामुनेयप्रबन्धैः
त्रात्रं सम्यग्यतीन्द्ररिदमखिलतमःकर्शनं दर्शनं नः ॥ इत्यभिष्टुवन्त्याचार्याः ॥
श्रीभगवद्विषयम् --श्रीकुरुकेश्वराणां कृतिः ।
श्रीभाष्यविवरणम्, षडर्थसंक्षेपः, गुरुगुणावली, तत्वसंग्रहः इत्येवमादयः षोडशप्रबन्धाः-----श्रीभाष्यकृतां प्रियशिष्यस्य प्रबन्धतोऽपि मन्त्रार्थसंप्रदायप्रवर्तकस्य श्रीमतः श्रीराममिश्रमहादेशिकास्य कृतयः । यस्य च भगवद्रामानुजाचार्यशिष्यभावमजानद्भिः न्यायपरिशुद्धेपोद्धातलेखकः श्रीमाद्भः शतावधानं श्रीनिवासाचार्यैः कुलपरम्परयैव श्रीराममिश्रमहादेशिकस्य श्रीभाष्यकारशिष्यत्वं तदीयनिखिलसंप्रदायप्रवर्तकतां च
आद्या श्रीभाष्यविवृतिः यतिराजनियोगतः ।
येनाकारि सुगूढार्था राममिश्रं नमामि तम् ॥ इति ॥
व्यापकत्रयसारार्थषट्कं येन प्रबन्धतः ।
प्राकाश गुरवे तस्मै राममिश्राय मङ्गलम् ।। इति चानुदिनमनुसंदधत्सु सत्स्वपि महात्मसु केवलया स्वमनीषिकया कमपि क्रमं परिकल्पयद्भिः निगमान्तगुरुवचोभिरेव परिस्फुटामपि यत्प्र