Book Title: Tattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Author(s): D Srinivasachar, S Narsimhachar
Publisher: D Srinivasachar, S Narsimhachar

View full book text
Previous | Next

Page 9
________________ पूर्वोक्तं कृतकोटितत्संग्रहरूपं प्रबन्धयुगळं बोधायनोपवर्षमुनिद्वयकर्तृकतया श्रीमद्रामानुजाचार्येभ्योपि प्राचीने प्रपञ्चहृदयनाम्नि प्रधन्धे लक्षग्रन्थात्मकतया तत्संग्रहतया च निर्दिश्यते । अथापि तत्वटीकायां (द्वि. सं. ५४ पृ.) 'बोधायनटङ्कद्रामिडादिमहत्तरपरिग्रहप्राचुर्य दर्शयति' इति ; स्थलान्तरे च उपवर्ष प्रस्तुत्य ‘अस्यैव बोधायन इति नाम स्यात्' इति चोक्तम् ; सेश्वरमीमांसायां च यत्तूक्तमुपवर्षवृत्तौ इत्यादिना तन्मतमनूद्य निरस्तमपि ; इत्येवं एकत्र बोधायनोपवर्षयोरभेदं परत्र च उपवर्षस्यान्यत्वं च गमयता निगमान्तगुरुणा बोधायनोपवर्षयोर्विषये कोऽपि संशय उद्भाव्यत इति प्रतिभायात् ; तत्रेत्थं निगमान्तगुरोराशयमाकल्यामः ; वैजयन्तीनाम्नि हि कोशे---- हलभूतिस्तूपवर्षः कृतकोटिमुनिम्तथा ॥ इति पर्यायनिर्देशः क्रियते । तत्र चोपवर्ष एव कृतकोटिमुनिरिति निर्दिश्यते । इत्थं च कृतकोटिमुनिरिति बोधायनावगातिनिरुध्येत । प्रसिद्धा च वोधायनस्य कृतकोटिग्रन्थप्रणेतृता; अतः उपवर्ष एव बोधायन इत्यभ्युपगमयत्युपवर्षस्य कृतकोटिकतोक्तिरित्यवगमयितुं तत्व टीकायामचार्येण 'अस्यैव बोधायन इति नाम स्यादिति सूक्तिः प्रवर्तित स्यात् ' । सेश्वरमीमांसायां च उपवर्षग्रन्थानुवादखंडने परं कृतकोटिग्रन्थसंग्रहकतारमुपवर्ष विषयीकृत्याप्युपपद्यते इति ॥ ___यद्यपि चार्षेषु ग्रन्थेषु बंहीयसी विलुप्तिरवगम्यते इत्याकलय्यानाकलय्य वा व्याससूत्रवृत्तिरूपोऽप्या! निबन्ध आसीदिति विशिष्टाद्वैतिनां श्रीभाष्ये एव परमवगच्छामो नान्यत्र कापीति पराक्रमकलुषाशयाः प्रायः प्रपञ्चहृदयग्रन्थावलोकनेनोपशाम्येयुरपि ; श्रीमच्छङ्कराचार्यप्रबन्धेषु पर नामग्राहं बोधायनमताप्रदर्शनेन विश्वासदाळमनासादयन्त स्संशयीरन्नपि ; तथाऽपि-व्याडि, विन्ध्यवासि, भवदास, कुणरवाडव,

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 746