Book Title: Tattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Author(s): D Srinivasachar, S Narsimhachar
Publisher: D Srinivasachar, S Narsimhachar

View full book text
Previous | Next

Page 4
________________ _iv तत्वमुक्ताकलापसर्वार्थसिद्धयोः प्रणेतुराचार्यस्य वेङ्कटनाथ इत्येव पितृकृतं परिपूर्णाभिधेयं सुगृहीतं नाम ॥ निगमान्तगुरुःश्रुत्यञ्चलाचार्य इत्यादि तु बिरुदनाम्नो वेदान्ताचार्यपदस्य पर्यायतया शिष्यपरम्परया प्रवर्तितं प्रथितमास्ते ॥ वेदान्ताचार्य इति बिरुदलाभक्रमस्तु प्रसिद्धात्तदीयचरित्रादवगम्यते । 'तेन देवेन दत्तां वेदान्ताचार्यसंज्ञाम्' इति च आचार्योऽप्यनुवदति अधिकरणसारावल्लयाम् ॥ । श्रीमतो वेङ्कटनाथगुरोः पिता अनन्तसूरिः पितामहः पुण्डरीकाक्षसूरिः । निबबन्ध च ग्रन्थादावाचार्यः नानासिद्धान्तनीतिश्रमविमलधियोऽनन्तसूरेस्तनूजो वैश्वामित्रस्य पात्रो विततमखविधेः पुण्डरीकाक्षसूरेः । इति । माता च तोतारम्बति तच्छिष्यजननित्यानुसन्धेयात् ___यस्तनयस्तोतारम्बायास्तम्य मङ्गलम् ।। इति मङ्गलाशासनात् गुरुपरम्परयोपदेशाच्च ज्ञायते ॥ ___श्रीवेङ्कटनाथगुरोः सर्वविधगुरुर्मातुलश्च श्रीमान् घीवैभवासादितवेदान्तोदयनबिरुदः भगवतो भाष्यकारादुत्तरं मन्त्रार्थसम्प्रदायप्रवर्तकस्य आत्रेयरामानुजाचार्यस्य पौत्रः श्रीमान् आत्रेयो रामानुजाचार्यः । इद मप्यत्रैवाह गुरु: श्रुत्वा रामानुजाचार्यात्सदसदपि ततस्तत्वमुक्ताकलापं व्यातानीद्वेङ्कटेशः । इति । परमगुरुश्च वात्स्यः श्रीमान् वरदाचार्य इत्यपि वरदगुरुकृपालम्भितोद्दामभूमा इति पूर्वोक्तपद्यभागादवगम्यते ॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 746