Book Title: Suktmuktavali Author(s): Bhupendrasuri Publisher: Bhupendrasuri Jain Sahitya Samiti View full book textPage 4
________________ D टीम मन्तिमस्रग्धरापद्यस्य - पूर्णसुन्दरतरे भरतपुरे निवासिन ओसवंशीय - पारिस्वगोत्रीय श्रेष्ठीवयं श्रीपभदासस्य केसरीनाम्या स धर्मचारिण्याः कुक्षितः सुसमये रत्नराजीयं जन्म वैक्रमीयेऽल्दे गुणवसुगजेन्दुवत्सरे १८८३ समजायत । तदनु लघुवयस्येव सकुटुम्बमातृपित्रोरनुज्ञामादाय यतिवर्यैश्रीममोदविजयबृहद् गुरुभ्रातृहेमविजयेन वेदाभ्राकभूवत्सरे वैशाखशुक्लपञ्चम्यां भृगुवासरे महता समारोहेणोदयपुरे प्रदीक्ष्य श्रीरत्न विजयनाम्नाऽपप्रथत । पुनस्तत्रैय कालान्तरेण तद्धस्तेनैव गुरुदीक्षाष्यभूत् । तस्यामेव यतिदीक्षायां स्वगुरु श्रीप्रभोदसूरिणा श्री संघसमस्या चतुर्विंशत्यधिककोनविंशतिवत्सरे माध्यशुभ्रपञ्चम्यां सोत्सवेन श्री पूज्योपाधिना श्रीरत्नविषयोऽलंकृतः सन् श्रीमद्विजय राजेन्द्रसूरिनाम्ना ख्यातिमाए ! ततो मरुधर - मेवाड़ - मालवादिदेशेषु श्रीपूज्यपदवीं प्रकाशयन् क्रमेण जावरापुर्यामाजगाम । तत्र प्राचीन श्री पूज्येन गच्छसुधारात्मकनर्वानियमानि स्वाकारयित्वा श्रधिकृत भक्त्युत्सवेन पञ्चविशत्यधिककोनविंशतिवर्षे आषाढशुषलदशम्यां शनिवासरे पूज्यं समयपरिग्रहं त्यक्त्वा पञ्चसमितित्रिगुप्तियुक्तमहाव्रतधारी प्रसिद्धकियोद्धारकः सुगुरुर्जज्ञे । तदनन्तरं देशदेशान्तरीयभूमण्डले विहृत्य पष्टितुर्मासीं विधाय जिनशासनं समुन्नीय भव्यजीवांश्र समुध्धृत्य त्रिषष्ट्यधिकैकोनविंशतिसंवत्सरे पौषसित सप्तम्यां मालवदेशस्थराजगद्दन गरे स्वर्गसुखं संजगृहे । स श्रीगुरुवर्य्योऽखिलान् जोवान्मे च श्रेयो दिशतु इति श्रीगुलावविजयो मुनिः सफलश्रीसंघसमक्षे निगदति ।Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 344