Book Title: Sudarshan Pandit Pratyuttar va Bhram Shodhak Author(s): Mangalvijay Publisher: Hemchand Shavchand Shah View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४ ] अतस्तल्लक्षणं नैव सिद्धात्मनि प्रयुज्यते । अव्याप्त्यादिक दोषेण दुष्टं तत्परिज्ञायताम् ॥ १६ ॥ मलधारणद्वारा च मुक्तिों जैनशासने। सम्यग्ज्ञानक्रियाभ्यां च मुक्तिस्तु जैनसंमता ॥ २० ॥ मलधारणकर्त्तव्ये यदि मुक्तिश्च संभवेत् । तदाऽघोरि मनुष्याणां प्रथमा परिजायते ॥ २१ ॥ मलधारणरूपं तत् कथं मुक्तेश्च कारणम् । निरूपितं त्वया जने वन्ध्यापुत्रसमं खलु ॥ २२ ॥ निर्मोकता प्रकृत्याश्च चोर्ध्वगतौ न हेतुता। उर्ध्वगप्राप्ति मात्रत्वं मोक्षो नैवाभिधीयते ॥ २३ ॥ प्रकृतेर्मान्यता चैव सांख्यदर्शनसंमता। महत्तत्त्वादितत्त्वानामुत्पत्ति कारणं खलु ॥ २४ ॥ महत्तत्वादितत्वानां वेदान्तसांख्यमान्यता। जैनेषु प्रकृत्यादीनि तत्त्वानि सन्ति नैव च ॥ २५॥ कृत्स्नकर्मक्ष्याच्चैव मोक्षस्तु जैनसंमतः । अनन्तसुखसंवेद्य ज्ञानादिकं - तथैव च ॥ २६ ॥ सर्वथाऽनादि संसारः जैन व निगद्यते । द्रव्यतोऽनादि संसारः पर्यायेण न संमतः॥ २७ ॥ १ प्रोक्तं च तत्त्वार्थ सूत्रे प्रथमाऽध्याये प्रथमसूत्रं सम्यग्दर्शनज्ञान चारित्राणि मोक्षमार्ग इति । २ उप्रगति प्राप्ति। ३ ज्ञानाद्यनन्त चतुष्टय रूपत्वे। For Private And Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22