Book Title: Sudarshan Pandit Pratyuttar va Bhram Shodhak
Author(s): Mangalvijay
Publisher: Hemchand Shavchand Shah
Catalog link: https://jainqq.org/explore/020766/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीसुदर्शन-पण्डित-प्रत्युत्तरम् ब्रमशोधका + -मङ्गलविजयः For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ अहम् ॥ नमोनमः श्री प्रभुधर्मसूरये। दर्शन-पण्डित-प्रत्युत्तरम् - भूमशोधकः कर्ता . ग्यायविशारद-न्यायतीर्थ-उपाध्याय श्री मंगलविजयजी महाराज प्रकाशक हेमचन्द शवचन्द शाह कलकत्ता। प्रथमावृत्तिः १००० धर्म सं० १६ वीर सं० २४६७ विक्रम सं० १६६७ For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir =ITIRHTE! MHARIRITAL SIRTHDIDIL IHIRAIL ॥ ॐ अहे ॥ उल्लासकल्लोलिनी कर्त्त महाशयानां सुदर्शन In८ पंडितानां जैन-तत्त्व-विषयक विचारप्रदर्शको ल्लासकल्लोलिन्या प्रत्युत्तरम् वा भ्रमशोधक ग्रन्थस्य संस्कृत पद्यमयस्य रचयिता जगत्पूज्य शास्त्रविशारद जैनाचार्य श्री विजयधर्मसूरीश्वर 'शिष्य न्यायतीर्थ न्याय-विशारदोपाध्याय मङ्गलविजयः IIIIIIIIIIIITHHHIDISHRAMHDHISIRAIL राय- US EHIMIRE काRIHMIRIRINE ITHILITANIA TIMA R ATHIMALAILEEP For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ई मुद्रावणा साहाय्यम् । M बोथरा-कुल-चन्द्रण, उदयचन्द्र चारुणा। धैर्योदार्यगुणाढ्य न, धर्मकार्यविधायिना ॥५॥ कल्लोलिन्याश्चभ्रान्तिनां, शोधको भ्रमशोधकः। तस्य मुद्रापणे द्रव्य-साहाय्यं तेन स्वीकृतम् ॥२॥ गुरूणामुपदेशस्तु, शिरोधार्य सदा तव । प्रन्थप्रचारकर्तणा, ज्ञानाऽऽवारक्षयः फलं ॥३॥ AL as CAN For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ अहम् ॥ नमोनमः श्री प्रभुधर्मसूरये। सुदर्शन-पण्डित-प्रत्युत्तरम् भ्रमशोधकः मंगलाचरणम् जैन जयति शासनम् सुशान्ति मार्गे वरयान तुल्यम्, प्रणाशकं सर्वदुर्वादिदर्पम् । मतं जिनानां शरणं बुधानाम्। नमामि नित्यं त्रिजगत्प्रधानम् ॥ १॥ वन्दित्वा पार्श्वदेवेशं धर्मसूरि गुरु तथा। सुदर्शनस्य भ्रान्तीनां निरासः क्रियते मया ॥२॥ For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २ ] दाक्षिणात्यो महाभागो भूतपूरी निवासकः । सुदर्शनाऽभिधेयश्च प्रन्थं च कृतवान् खलु ॥ १ ॥ कल्लोलिनी च यस्याख्या वर्तते पुस्तकस्य च । । बहु भ्रान्तिश्च जैनेषु कृता तेन मनीषिणा ॥ २ ॥ तदर्थं क्रियते यत्नः दर्शनभ्रमशोधकः ।. कासांचिच्चैव भ्रान्तीनां निरसनं विधीयते || ३ || जैनधर्मविषयक मान्यता तेन या दर्शिता सा अक्षरशोऽन लिख्यते । १ - आर्हतोऽपि जगत्सर्वं कार्यकारणरूपेण नित्यानित्य सत्यासत्य भिन्नाभिन्नात्मकम् । २ - आत्मानः कर्माऽनुगुण शरीर परिणाम परिमाणाः । ३ - अनादिसंसारः । ४ - मलधारणाऽऽत्मज्ञानादिभिः प्रकृतिविनिर्मोकादूर्ध्वगति प्राप्तिर्मोक्ष इति जैन सिद्धान्तस्तेन प्रतिपादितः । आर्हतेति च संप्रोच्य यदुक्तं तदसत्यकम् । जैनशास्त्रे च तादृक्षी मान्यता नैव वियते ॥ ४ ॥ कस्य चिज्जैन शास्त्रस्य दत्तं नैव प्रमाणकम् । अप्रमाणिक वादोऽयं जैन सिद्धान्तसंमतः ॥ ५ ॥ जैनैस्तादृक् च नो प्रोक्तं कथं मिथ्या विधीयते 1 मिथ्यावाद प्रवक्तव्ये दोषाऽवकाशता भवेत् ॥ ६ ॥ जगत्सर्वं च जैना वै गदन्ति नैव तादृशम् । अपितु द्रव्यपर्यायरूपं जैनेश्च मन्यते ॥ ७ ॥ For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३] कार्यकारणरूपं च प्रोक्तं न जैनशासने। अपितु बौद्ध राधान्तः कुतोऽत्र परिदर्श्यते ॥८॥ नित्यानित्यत्वरूपं च बौद्धैर्न स्वीकृतं कदा। कार्यकारणकं यत्र तत्र नित्यादिकं नहि ॥ ६॥ सर्वथाऽसत्यरूपं तु खपुष्पं परितिष्ठति । शून्यवादिगृहे तच अन्यत्र नैव संमतम् ॥ १०॥ परस्परं च कार्यकारणता क्षणिके मता। जैनेषु नैव ताक्षं सर्वथा संमतं खलु ॥ ११ ॥ जैन बौद्धस्य सिद्धान्तावलोकनं कृतं न चेत् । कथं तहिं तदीयानां मान्यता दर्शिता त्वया ॥ १२ ॥ भेदज्ञानं विना कृत्वा लेखिनी चोद्यता तव । अतएव च हास्यावकाशता जायते नृणाम् ॥ १३॥ जड़चेतन मध्ये च सर्वथा भिन्न रूपता । अनादिकालिकी ज्ञेया तत्र नोऽभिन्नतामता ॥ १४ ॥ जड़चेतन रूपं च जगज्जनेऽनिगद्यते । तत्र खपुष्प सादृक्षी अभिन्नता प्रकीर्तिता ॥ १५ ॥ उपयोगस्वरूपाः स्युः आत्मानो जैनदर्शने । कर्मानुगुण इत्यादि जैनेषु नैव सर्वथा ॥ १६ ॥ एकान्तकर्मवादश्च मीमांसकेषु संमतः। पञ्चकारणवादोहि संमतो जैनशासने ॥ १७॥ सिद्धात्मसु च नो तादृक् कर्माभावाञ्च सर्वथा। शरीरस्यापि नो सत्ता तत्र केनापि रूपतः ॥ १८॥ For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४ ] अतस्तल्लक्षणं नैव सिद्धात्मनि प्रयुज्यते । अव्याप्त्यादिक दोषेण दुष्टं तत्परिज्ञायताम् ॥ १६ ॥ मलधारणद्वारा च मुक्तिों जैनशासने। सम्यग्ज्ञानक्रियाभ्यां च मुक्तिस्तु जैनसंमता ॥ २० ॥ मलधारणकर्त्तव्ये यदि मुक्तिश्च संभवेत् । तदाऽघोरि मनुष्याणां प्रथमा परिजायते ॥ २१ ॥ मलधारणरूपं तत् कथं मुक्तेश्च कारणम् । निरूपितं त्वया जने वन्ध्यापुत्रसमं खलु ॥ २२ ॥ निर्मोकता प्रकृत्याश्च चोर्ध्वगतौ न हेतुता। उर्ध्वगप्राप्ति मात्रत्वं मोक्षो नैवाभिधीयते ॥ २३ ॥ प्रकृतेर्मान्यता चैव सांख्यदर्शनसंमता। महत्तत्त्वादितत्त्वानामुत्पत्ति कारणं खलु ॥ २४ ॥ महत्तत्वादितत्वानां वेदान्तसांख्यमान्यता। जैनेषु प्रकृत्यादीनि तत्त्वानि सन्ति नैव च ॥ २५॥ कृत्स्नकर्मक्ष्याच्चैव मोक्षस्तु जैनसंमतः । अनन्तसुखसंवेद्य ज्ञानादिकं - तथैव च ॥ २६ ॥ सर्वथाऽनादि संसारः जैन व निगद्यते । द्रव्यतोऽनादि संसारः पर्यायेण न संमतः॥ २७ ॥ १ प्रोक्तं च तत्त्वार्थ सूत्रे प्रथमाऽध्याये प्रथमसूत्रं सम्यग्दर्शनज्ञान चारित्राणि मोक्षमार्ग इति । २ उप्रगति प्राप्ति। ३ ज्ञानाद्यनन्त चतुष्टय रूपत्वे। For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [५] किंच सिंहावलोकं च कार्यकारणतादिके। क्रियते जड़चैतन्ये घटते नैव तादृशम् ॥ २८ ॥ चैतन्यस्य न हेतुत्वं जड़तायां विभाव्यते । कार्यताऽपि न तत्रैव केन रूपेण संमता ॥२६ ।। जड़ोत्पत्तेश्च हेतुत्वं चैतन्ये नैव संभवेत् । कार्यताऽपि न तत्रैव केन रूपेण संमता ।। ३० ॥ यदि चैतन्यतत्त्वेच कार्यता मन्यते मया। तदा जड़स्य कार्यत्वे चैतन्ये जड़ता भवेत् ।। ३१ ।। यादृशं कारणं यत्र कार्य तादृक्च जायते । जड़कारणतायां वै चैतन्ये जड़ता खलु ॥३२॥ यदि चैतन्यतत्त्वेषु नित्यत्वं नैव मन्यते । तदा जैनैः कथं तर्हि योगादिकं च पाल्यते ॥ ३३ ॥ अत्यन्ताभावसम्बन्धो जड़चैतन्योयोर्मतः । कार्यकारणता तर्हि कथं जैनेः प्रदर्श्यते ।। ३४ ।। दानतपः किमर्थं वै क्रियते फललिप्सुना। वन्ध्यापुत्रसमा चैव तादृशी मान्यता जिने ॥३५॥ कथं मिथ्या समारोपः त्वया जैने विधीयते । जैनदर्शनज्ञानस्य शून्यता त्वयि भाव्यते ।। ३६ ।। जैनदर्शनशास्त्राणामभ्यासं च कृतं न चेत् । खण्डनं च कथं तर्हि विदुषा परितन्यते ॥ ३७॥ शुष्ककथाऽनुसारित्वं भवतां नैव युज्यते । धर्मवादाऽनुसारेण वक्तव्यं हि भवादशैः ।। ३८ ।। For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विमर्शकं समुहिश्य लिखितं भवता खलु। तत्सर्व युक्तिहीनत्वं प्रमाणेन प्रदर्श्यते ।। ३६ ।। वेदविषयज्ञानस्य भवतोऽभावश्च सर्वथा। शंकरादिकविज्ञानां कृतिमुद्दिश्य तत्त्वतः ॥ ४० ॥ लिखितं स्वीय समन्थे नूतनं न कृतं त्वया। महावीरत्वनामाऽऽख्यः जैनधर्म प्रवर्तकः ।। ४१ ॥ प्रतिमादि गुणैर्युक्तः आधस्तदू धर्मदेशकः । अपरो नैव ज्ञातव्यः एवकारेण बोध्यते ॥ ४२ ।। कूपमण्डूकता तेन वाक्येन परिदशिता। नहि स्वकीय सिद्धान्तः स्वयं कदाऽपि वीक्षितः ।।४३।। मृगवेदादि शास्त्रेषु मंत्रा जैनत्वद्योतकाः । शतशः परितिष्ठन्ति नेत्रमुन्मूल्य दृश्यताम् ।। ४४ ।। ऋषभादिजिनेन्द्राणां सुमतिजिनस्वामिनाम् । श्री श्रेयांसप्रभूणां चारिष्टनेमिजिनस्य वै ॥ ४५ ॥ वर्धमानमहावीरप्रभूणां नामपूर्वकाः । बाढं मंत्राश्च तिष्ठन्ति त्वच्छास्त्रं दृश्यतां त्वया ॥४६॥ एवं तीर्थंकराणां च भरतादि चक्रवर्तिनाम् । मंत्राणां विद्यमानेऽपि कथमाद्यः स देशकः ॥ ४७ ।। प्रथम आदिदेवः स्यात् सुमतिश्च पञ्चमो मतः । श्रीश्रेयांसप्रभुश्चैव एकादशतमः खलु ॥ ४८ ॥ १ शंकराचार्यादि। २ तेषु कतिचिच्छलोका जैनत्व घोतकाः सन्ति । For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [७] अरिष्टनेमिनाथश्च द्वाविंशतितमः स्मृतः । वर्धमानजिनेन्द्रश्च चतुर्विंशतिसंख्यकः ॥ ४६॥ वर्धमानस्य पूर्वेऽपि त्रयोविंशतिसंख्यकाः । तेषां वेदेषु नामानि कतिचित्सन्ति पूज्यतः ॥ ५० ॥ कथं तर्हि । महावीरः जैने चायप्रवर्तकः । अतो विचार्य वक्तव्यं परमन्तव्यतत्त्वकम् ।। ५१ ।। श्रीमद् भागवते प्रन्थे योगवाशिष्टशास्त्रके । महाभारतपौराणे श्लोका जैनत्व द्योतकाः ॥ ५२ ।। वेदरहस्यग्रन्थे च व्याख्याताः कतिचिन्मया। ततोऽपि ते च ज्ञातव्याः भ्रान्तिनिरासकांक्षिणा ।। ५३ ।। वेदात्प्रागपि नो चेत्ते तहि तन्नामता कथम् । अतस्ततोऽपि प्राचीनाः सर्वे तीर्थंकरा मताः॥ ५४॥ अनादिता च वेदेषु यदि त्वया निगद्यते । दोषाऽवकाशता तत्र प्रत्यक्षेण विलोक्यताम् ॥ ५५ ॥ ऋषभादिप्रभूणां च सादित्वं स्वीकृतं समैः। कथं तेऽपि समायाताः अनादि वेद शास्त्रके ॥ ५६ ।। तदोषस्य निरासाय तेषां यदि च नित्यता। तदा तेषां पितॄणां च पुत्राणां संभवः कथम् ॥ ७ ॥ चतुर्विंशति तीर्थकराणां च स्वीकृतिर्यदि। तदा तेषु च मध्ये वै प्राथम्यमादिनाथके ॥५८ ॥ श्रीमद्भागवते चैव अतएव निरूपितम्। एकादशसु स्कन्धेषु प्रन्थं निष्कास्य दृश्यताम् ॥ ६ ॥ For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८ ] तत्प्रवर्तनम् । तहिं कथं महाबीरे प्रथमं भवद्भिर्लिखितं तद्धि युक्तिप्रमाणशून्यतः ॥ ६० ॥ अन्तिमस्तु महावीरो भगवान् जैनसम्मतः । यद्याद्यश्च महावीरः मन्यते हि भवादृशैः ॥ ६१ ॥ तदा वेदादि शास्त्रेषु ऋषभाद्याः कथं मता । जैनशास्त्रेषु सर्वत्र क्रमतः प्रतिपादिताः ॥ ६२ ॥ यदि तत्र न प्रामाण्यं वेदेषु तत्कथं भवेत् । युक्तिप्रमाणराहित्ये वक्तव्ये न विवेकता ॥ ६३ ॥ एतत्कालं समुदृश्य प्रवर्तकत्वमुच्यते । तदा त्वयाऽपि मन्तव्यं आद्यत्वमृषभे जिने ॥ ६४ ॥ महावीरोऽन्तिमो ज्ञेयः युक्तिः युक्त्या विचारणे । असंबन्धत्वदोषो हि अतएव निवर्तते ॥ ६५ ॥ अपेक्षया च प्रोक्तं तत् विवादस्तत्र नो भवेद् । अथवाऽनादिता जैने पारंपर्यानुयोगतः ॥ ६६ ॥ आस्तिक नास्तिक्य चर्चा बादोऽपि नैव चर्चितः । परन्तु हार्दिको भावो वेदानुयायिनस्तव ॥ ६७ ॥ वेदानुयायि व्यक्तौ च यद्यास्तिक्यं निगद्यते । तदा जैमिनि भक्ता ये घोरहिंसाविधायकाः ॥ ६८ ॥ त एव चास्तिका ज्ञेया वेदशास्त्रावलम्बतः । ये वेदविहिता यज्ञाः कुर्वन्ति ते च सर्वदा ॥ ६६ ॥ वरं वराकाश्चार्वाकाः ते तु प्रगट नास्तिकाः । वेदोकितापसच्छद्मच्छन्नं रक्षो न जैमिनिः ॥ ७० ॥ For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [६] वेदे हिंसात्व प्राबल्यं मखाऽनेक विधानतः । गोमेधनरमेधाऽश्वमेधादीनां निरूपणात् ॥ ७१ ॥ जलस्थलचराणां च जीवानां वै विधानकम् । यज्ञार्थं परिदृश्यते अकुर्वन् ते तथैव च ॥ ७२ ॥ न तु सांख्यादि मन्तव्ये वेदान्तिके च नो तथा । किन्तु मीमांसकैः सर्वैः शाक्तानुयायिभिस्तथा ॥ ७३ ॥ त एव चास्तिका वाच्याः भवद् वेदानुसारतः । नास्तिकाश्च परे सर्वे वेदहिंसानिषेधकाः ॥ ७४ ।। पाणिनिसूत्रयोगेन आस्तिक्यं यदि चर्च्यते । आत्मस्वर्गादि मन्तृणां मोक्षतत्त्वानुगामिनाम् ।। ७५ ॥ सर्वेषा मपि तेषां वै सांख्यदर्शनकादीनाम् । आस्तिक्यं विद्यते युक्त्या शान्तचित्तेन बुध्यताम् ।। ७६ ॥ ततश्च नास्तिक वादोऽपि चार्वाके शोभते सदा। न तु सांख्यादिके स्वान्ते बोद्धादिकविभागके ॥ ७७ ॥ प्रोक्तञ्च नर्मदाशंकर कविनानास्तिक्यं वेद धर्मे जिनवर सुमते सर्वमिथ्यात्वभावः । कौसंग्यं चौद्धवीये भुवने सुविदिते वैष्णवेऽनाश्रयत्यं ॥ सामाजेऽनार्यता यत्प्रचलितपरमं म्लेच्छके काफरत्वं । सर्वाधःपातकारी प्रसरति भयदो भारते भेद भावः । ७८ । द्वेष बुद्ध्या परेषां वै नास्तिक्यं नैव जल्प्यताम् । यदि विशुद्धरूपेण आस्तिक्यं चर्च्यते त्वया ॥ ७६ ॥ For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १० ] तदा केवल जैनेषु अहिंसा शुद्धयोगतः । आस्तिक्यं परितिष्ठेत अन्यत्र नाममात्रकम् ॥ ८० ॥ अहिंसादि यमादीनां नान्यत्र सम्भवः खलु । एकान्तनित्यतावादे अनित्येकान्तवादके ॥ ८१ ॥ भवादृशाश्च विद्वाशः प्रज्ञाशक्तिसमन्विताः। परेषां भ्रांति गर्तेषु पातयन्ति कथं नु भो ॥ ८२।। यदि तत्कार्यकर्त्तव्ये पुरुषार्थः प्रयुज्यते।। तदा तत्प्रतिकाराय लेखनी चोद्यता मम ।। ८३ ॥ अतएव च सन्मार्गो गोप्तव्यो न भवादृशैः । परलोकादि मन्तारः आस्तिकाश्च समे मताः ॥ ८४ ।। श्रुतकेवलित्व पदवी न भवेत् श्रुतकेवलिता पदवी जैनेषु नैव कीर्तिता। दृष्टिव दस्य पाठेन अपितु श्रुतकेवली ॥ ८५ ॥ तथा तत्पूर्णपाठेन देशना केवली समा। यत्र श्रुतस्य पूर्णत्वं स एव श्रुतकेवली ॥ ८६ ॥ जैनदर्शनज्ञानस्य शून्यत्वात्कल्पितं तथा। नैव युक्ति प्रमाणानां स्वल्पत्वं तत्र विद्यते ॥ ८७ ॥ देवमनुष्यजीवानां प्रीतिसंपादकत्वतः । इति हेतुर्न वक्तव्यः अहिंसाधर्मसाधने ॥ ८८ ॥ १ तत्रैव श्रुतकेवलिता मता। २ शुद्धात्म स्वरूप प्रकाशकत्व हेतौ तु तादृग् दोषो नास्त्येव कुतो For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११ ] अहिंसासंयमे चैव तपो रूपे च धर्मता। आत्म स्वरूपता तत्र हेतुत्वे न विधीयते ॥ ८ ॥ यस्य धर्मे सदा स्वान्तं नमन्ति तत्र देवता। ततो बाह्य लाभः स्यादुपद्रवस्य शान्तिता ॥ १० ॥ अपरेषां तु का वार्ता देवानां नमने सति । परे च नामिता एव इति मनसि बुद्धथताम् ।। ११ ॥ जैनशास्त्रविरुद्धं ये मन्यन्ते पक्षपातिनः । देवप्रियनरः पूज्याः ते नो ज्ञेयाः कदाचन ॥ १२ ॥ तं नो देवा नमस्यन्ति असन्मार्गावलम्बतः । पलादास्तान्नमस्यन्ति न तु विशुद्धदेवताः ॥ १३॥ वेदविहितहिंसायाः कारणं श्वसुरं प्रति । जामातारो नमस्यन्ति इत्यपि नैव युक्तिमत् ॥ १४ ॥ यज्ञक्रियाविधानेन देवांश्च प्रीणयन्ति ते । इति मिथ्या वचश्चैव श्रोतव्यं नैव कहिचित् ।। ६५ ।। देवपूजास्वरूपश्चेत् यज्ञो हिंसानिषेधकः । इत्यर्थे चैव कर्त्तव्ये विवादो विद्यते नहि ॥ १६ ॥ पश्वादिहोमरूपश्च किन्तु यज्ञः प्ररूपितः । अतोऽहिंसा स्वरूपश्च यज्ञो नैव कदाचन ।। ६७ ।। यमादि योगांगद्वाराऽऽगम्यमान नूतनकर्मनिरोधेन पुरातनस्य निर्जरया शुद्धाऽऽत्मस्वरूपं प्रकटीयते शुद्धात्म प्रकाशत्व हेतौ तु ताहग दोषो नास्ति । For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२ ] अबध्यादिज्ञाननिरूपणे मिथ्यारूपता प्रदर्श्यते अवध्यादिक ज्ञानानां शुद्धं रूपं न कीर्तितम् । पारिभाषिकशब्दानां सर्वथा ज्ञानशून्यतः॥ १८ ॥ अतएव च जैनानां समीपे पठनं वरम् । पश्चात् खलु प्रवक्तव्ये दोषता नैव संभवेत् ॥ १६ ॥ अवधिज्ञाननिरूपणंअनुभवानुसारेण अस्माकं बोधता च या। अवधिरूपज्ञानं तत् इति तेषां मतिः किल ॥१०॥ ___ मनःपर्यायनिरूपणंपठनानन्तरं. चान्याऽभिप्रायस्य वेदनम् । मनः पर्यायज्ञानं तत् जनैरित्यपि मन्यते ।। १०१ ।। वन्ध्यापुत्रस्वरूपं तत् सुदर्शनैर्निरूपितम्। सर्वथा मानशून्यत्वे निरूपणं न युज्यते ॥ १०२ ।। अवध्यादिकज्ञानानां स्वरूपं ज्ञानबिन्दुषु । तत्त्वार्थसूत्रवृत्यादौ विशेषावश्यके खलु ॥ १०३ ।। नन्दिसूत्रादिके चैव जैन तत्त्व-प्रदीपके । एवमनेकशास्त्रषु निरूपितं विशेषतः ।। १०४ ।। अवलोकं विना कृत्वा शंकरस्वामिवत्त्वया। यदि च लिख्यते विद्वन् उत्तरं तु मीलिष्यति ॥ १०५॥ स्थानांगसूत्रकृत्सूत्रे अंगाख्ये प्रकीर्तिते । सुधर्मस्वामि संदृब्धे श्रुत्वा प्रभुमुखाग्रतः ।। १०६ ॥ For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १३ ] युक्तिप्रमाणपूर्वेण व्याख्यातं शीलसूरिभिः । शंका समाधिता तत्र दर्शिता वै प्रमाणतः ।। १०७ ।। सूत्रकृत्सूत्र मध्येच सांख्यादि दर्शनं तथा। आदिदेवोपदेशश्च वैतालीय विभागके ॥ १०८ ॥ नरकस्त्रीविभक्तिश्च नारक दुःखवीक्षणम् । विशेषतोऽत्र संप्रोक्तं सावीय दृष्टिवेदिभिः ।। १०६ ।। अन्यमतीय प्रश्नाश्च प्रोक्ता चै चन्द्रभूतिना। उत्तराः शमभावेन कीर्तिता जिनभास्करैः॥ ११०॥ 'अनेकवस्तुबोधश्च स्पष्टरूपेण जायते । बोधाचारित्रसंप्राप्तिः ततः कर्मक्षयो ध्रुवम् ।। १११ ॥ स्थानांगे चैकमारभ्य दशपर्यंतवस्तुनः । त्रैकालिकपदार्थानां तन्मध्ये च निरूपणम् ॥ ११२ ॥ आक्रोशलेशता नैव मोहाभावे च. सर्वथा । अध्यात्मवादप्राचुर्यं धर्म भाव प्रकाशकः ॥ ११३ ॥ न्यायशास्त्रानु कारित्वं चरकस्य तथैव च । इत्युक्ति लिशानां च नैकट्ये परिशोभते ॥ ११४ ॥ एकदेशीयता तत्र अत्रैव सार्वदेशिकम् । तत्र शुष्कविवादश्च अत्र चाध्यात्मदेशना ॥ ११५ ॥ तस्य साम्यत्व संवादः कदाचिन्नैव युज्यते । हस्तिरासभयोश्चैव कथं साम्यं निगद्यते ॥ ११६ ॥ १ अध्ययने । २ गोतमीय न्यायदर्शनानुकरण । For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १४ ] पुराणे ते च सूत्रे द्वे अर्वाचीना च संहिता। न्यायसूत्रं ततः पश्चात् कथं साम्यं विभाव्यते ॥ ११७ ।। वैदकरूपता तत्र नैक रोगचिकित्सनम् । अनेकारंभसंयुक्तं चरकं परिभाव्यताम् ।। १३८ ।। तयोः केन प्रकारेण साम्यत्वं तेन साधितम् । तत्तु स एव जानाति बुद्धि शून्यत्व योगतः ॥ ११६ ॥ विना विचार्य वक्तव्यं पण्डितानां न शोभते । शंकरस्वामिभाष्यं हि यथा हास्यास्पदं महत् ॥ १२० ॥ जैनदृष्टिमविज्ञाय लिखने दोषता बहु।। आधुनिकाश्च विद्वांसः हास्यं कुर्वन्ति सर्वथा ॥ १२१ ।। कोयत्य ज्ञानता तेषां जैनदृष्टिनिरासने । प्रतिपादनशैली च प्रामाण्यरहिता सदा ।। १२२ ।। अनन्तावयवा-जीवे नो मता जैनदर्शने । कथं शंकर स्वाम्यादि संन्यासिना निरूपिताः ।। १२३ ।। त्रिविधजीवभेदाश्च नित्य सिद्धादि रूपतः । सर्वत्र जैनशास्त्रेषु तादृक्षानेव कीर्तिताः ।। १२४ ॥ पुद्गलास्तित्व कायानां षोढ़ात्वं तनिरूपितम् । चत्वारि चैव भूतानि स्थावरं जंगमं तथा ॥ १२५॥ खपुष्पसदृशं जैने तत्सर्व परिकीर्तितम् । जैनदर्शनज्ञानस्य सर्वथा तत्रामावता ।। १२६ ।। धर्मास्तिकायतत्त्वस्य व्याख्याऽपि तादृशी खलु। अधर्मास्तित्वकायत्वं यत्र तत्रैव मोक्षता ॥ १२७ ॥ For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १५ ] एतत्सर्वस्य दुष्टत्वं तत्त्वाऽऽख्याने प्ररूपितम् । दृष्टव्यं तत्समुघाट्य सत्यमार्गगवेषकैः ॥ १२८ ॥ अनभिज्ञत्व रूपा सा चेष्टा शंकरस्वामिनाम् । अन्य दृष्टिं विना दृष्टवा लिखने नैव प्रौढिमा ॥ १२६ ।। सर्वेषां दर्शनानां च युक्तियुक्त्या विवेचनम् । निरसनं च सद्युक्त्या तत्त्वाऽऽख्याने विभाव्यताम् ॥१३०॥ तत्तदर्शनशास्त्रस्य विलोकनं विशेषतः । कृत्वा च न्यायतीर्थेन प्रतिवादः समादृतः ।। १३१ ॥ ॥ ॐ शान्तिः शान्तिः॥ १ भावनगर यशोविजय अन्य मालायां मुद्रितं वर्तते । For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघुधशास्तिः COM रघुनाथपुरे रम्ये, मानभूमप्रदेशके । नैकभद्रजनाकीर्णे, नैक विद्यालयैर्युते ॥ १॥ जैनाना तन प्राचुर्य, प्राक्काले वनभूमिषु । अनेकमन्दिराणां च, प्रादुर्भावो विधीयते ॥ २ ॥ विशालजैनमूर्तीनां, प्राकट्यमधुनापि च। अतः सराकजातीनां, चोद्धृत्यै यत्नता खलु ॥ ३ ॥ महानविद्यालयश्चात्र, स्थापितो जैनपुङ्गवः । मंगलादिकसाधूनामुपदेशप्रभावतः ॥४॥ जनानामानुकूल्यं च, बहुधा परिविद्यते । अतस्तदुपकाराय, श्राद्धैर्धन व्ययीकृतः ॥ ५ ॥ श्राद्धादि गुणयुक्तानां, सींघीय गोत्रताजुषाम् । बहादूरस्य चौदार्यात् , जातं कार्य महत्तरम् ॥ ६ ॥ गुरु श्री धर्मसूरीणां, ममोपरि कृपा सदा । अतस्तत्कार्य कर्तव्ये यत्नः कथं न तन्यते ॥ ७ ॥ mmemilim १---मंगलविजय-प्रभाकरविजयः। २–बहादूरसिंहजी सिंघी। For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TAIHAHR नवयुवक प्रेस, 3, कमसियल विल्डिंग्स् कलकत्ता। For Private And Personal Use Only