________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८ ]
तत्प्रवर्तनम् ।
तहिं कथं महाबीरे प्रथमं भवद्भिर्लिखितं तद्धि युक्तिप्रमाणशून्यतः ॥ ६० ॥ अन्तिमस्तु महावीरो भगवान् जैनसम्मतः । यद्याद्यश्च महावीरः मन्यते हि भवादृशैः ॥ ६१ ॥ तदा वेदादि शास्त्रेषु ऋषभाद्याः कथं मता । जैनशास्त्रेषु सर्वत्र क्रमतः प्रतिपादिताः ॥ ६२ ॥ यदि तत्र न प्रामाण्यं वेदेषु तत्कथं भवेत् । युक्तिप्रमाणराहित्ये वक्तव्ये न विवेकता ॥ ६३ ॥ एतत्कालं समुदृश्य प्रवर्तकत्वमुच्यते । तदा त्वयाऽपि मन्तव्यं आद्यत्वमृषभे जिने ॥ ६४ ॥ महावीरोऽन्तिमो ज्ञेयः युक्तिः युक्त्या विचारणे । असंबन्धत्वदोषो हि अतएव निवर्तते ॥ ६५ ॥ अपेक्षया च प्रोक्तं तत् विवादस्तत्र नो भवेद् । अथवाऽनादिता जैने पारंपर्यानुयोगतः ॥ ६६ ॥ आस्तिक नास्तिक्य चर्चा बादोऽपि नैव चर्चितः । परन्तु हार्दिको भावो वेदानुयायिनस्तव ॥ ६७ ॥ वेदानुयायि व्यक्तौ च यद्यास्तिक्यं निगद्यते । तदा जैमिनि भक्ता ये घोरहिंसाविधायकाः ॥ ६८ ॥
त एव चास्तिका ज्ञेया वेदशास्त्रावलम्बतः । ये वेदविहिता यज्ञाः कुर्वन्ति ते च सर्वदा ॥ ६६ ॥
वरं वराकाश्चार्वाकाः ते तु प्रगट नास्तिकाः । वेदोकितापसच्छद्मच्छन्नं रक्षो न जैमिनिः ॥ ७० ॥
For Private And Personal Use Only