________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १० ] तदा केवल जैनेषु अहिंसा शुद्धयोगतः । आस्तिक्यं परितिष्ठेत अन्यत्र नाममात्रकम् ॥ ८० ॥ अहिंसादि यमादीनां नान्यत्र सम्भवः खलु । एकान्तनित्यतावादे अनित्येकान्तवादके ॥ ८१ ॥ भवादृशाश्च विद्वाशः प्रज्ञाशक्तिसमन्विताः। परेषां भ्रांति गर्तेषु पातयन्ति कथं नु भो ॥ ८२।। यदि तत्कार्यकर्त्तव्ये पुरुषार्थः प्रयुज्यते।। तदा तत्प्रतिकाराय लेखनी चोद्यता मम ।। ८३ ॥ अतएव च सन्मार्गो गोप्तव्यो न भवादृशैः । परलोकादि मन्तारः आस्तिकाश्च समे मताः ॥ ८४ ।।
श्रुतकेवलित्व पदवी न भवेत् श्रुतकेवलिता पदवी जैनेषु नैव कीर्तिता। दृष्टिव दस्य पाठेन अपितु श्रुतकेवली ॥ ८५ ॥ तथा तत्पूर्णपाठेन देशना केवली समा। यत्र श्रुतस्य पूर्णत्वं स एव श्रुतकेवली ॥ ८६ ॥ जैनदर्शनज्ञानस्य शून्यत्वात्कल्पितं तथा। नैव युक्ति प्रमाणानां स्वल्पत्वं तत्र विद्यते ॥ ८७ ॥ देवमनुष्यजीवानां प्रीतिसंपादकत्वतः । इति हेतुर्न वक्तव्यः अहिंसाधर्मसाधने ॥ ८८ ॥ १ तत्रैव श्रुतकेवलिता मता। २ शुद्धात्म स्वरूप प्रकाशकत्व हेतौ तु तादृग् दोषो नास्त्येव कुतो
For Private And Personal Use Only