________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११ ] अहिंसासंयमे चैव तपो रूपे च धर्मता। आत्म स्वरूपता तत्र हेतुत्वे न विधीयते ॥ ८ ॥ यस्य धर्मे सदा स्वान्तं नमन्ति तत्र देवता। ततो बाह्य लाभः स्यादुपद्रवस्य शान्तिता ॥ १० ॥ अपरेषां तु का वार्ता देवानां नमने सति । परे च नामिता एव इति मनसि बुद्धथताम् ।। ११ ॥ जैनशास्त्रविरुद्धं ये मन्यन्ते पक्षपातिनः । देवप्रियनरः पूज्याः ते नो ज्ञेयाः कदाचन ॥ १२ ॥ तं नो देवा नमस्यन्ति असन्मार्गावलम्बतः । पलादास्तान्नमस्यन्ति न तु विशुद्धदेवताः ॥ १३॥ वेदविहितहिंसायाः कारणं श्वसुरं प्रति । जामातारो नमस्यन्ति इत्यपि नैव युक्तिमत् ॥ १४ ॥ यज्ञक्रियाविधानेन देवांश्च प्रीणयन्ति ते । इति मिथ्या वचश्चैव श्रोतव्यं नैव कहिचित् ।। ६५ ।। देवपूजास्वरूपश्चेत् यज्ञो हिंसानिषेधकः । इत्यर्थे चैव कर्त्तव्ये विवादो विद्यते नहि ॥ १६ ॥ पश्वादिहोमरूपश्च किन्तु यज्ञः प्ररूपितः ।
अतोऽहिंसा स्वरूपश्च यज्ञो नैव कदाचन ।। ६७ ।। यमादि योगांगद्वाराऽऽगम्यमान नूतनकर्मनिरोधेन पुरातनस्य निर्जरया शुद्धाऽऽत्मस्वरूपं प्रकटीयते शुद्धात्म प्रकाशत्व हेतौ तु ताहग दोषो नास्ति ।
For Private And Personal Use Only