________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[५]
किंच सिंहावलोकं च कार्यकारणतादिके। क्रियते जड़चैतन्ये घटते नैव तादृशम् ॥ २८ ॥
चैतन्यस्य न हेतुत्वं जड़तायां विभाव्यते । कार्यताऽपि न तत्रैव केन रूपेण संमता ॥२६ ।। जड़ोत्पत्तेश्च हेतुत्वं चैतन्ये नैव संभवेत् । कार्यताऽपि न तत्रैव केन रूपेण संमता ।। ३० ॥ यदि चैतन्यतत्त्वेच कार्यता मन्यते मया। तदा जड़स्य कार्यत्वे चैतन्ये जड़ता भवेत् ।। ३१ ।। यादृशं कारणं यत्र कार्य तादृक्च जायते । जड़कारणतायां वै चैतन्ये जड़ता खलु ॥३२॥ यदि चैतन्यतत्त्वेषु नित्यत्वं नैव मन्यते । तदा जैनैः कथं तर्हि योगादिकं च पाल्यते ॥ ३३ ॥ अत्यन्ताभावसम्बन्धो जड़चैतन्योयोर्मतः । कार्यकारणता तर्हि कथं जैनेः प्रदर्श्यते ।। ३४ ।। दानतपः किमर्थं वै क्रियते फललिप्सुना। वन्ध्यापुत्रसमा चैव तादृशी मान्यता जिने ॥३५॥ कथं मिथ्या समारोपः त्वया जैने विधीयते । जैनदर्शनज्ञानस्य शून्यता त्वयि भाव्यते ।। ३६ ।। जैनदर्शनशास्त्राणामभ्यासं च कृतं न चेत् । खण्डनं च कथं तर्हि विदुषा परितन्यते ॥ ३७॥ शुष्ककथाऽनुसारित्वं भवतां नैव युज्यते । धर्मवादाऽनुसारेण वक्तव्यं हि भवादशैः ।। ३८ ।।
For Private And Personal Use Only