Book Title: Sudarshan Pandit Pratyuttar va Bhram Shodhak
Author(s): Mangalvijay
Publisher: Hemchand Shavchand Shah

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३] कार्यकारणरूपं च प्रोक्तं न जैनशासने। अपितु बौद्ध राधान्तः कुतोऽत्र परिदर्श्यते ॥८॥ नित्यानित्यत्वरूपं च बौद्धैर्न स्वीकृतं कदा। कार्यकारणकं यत्र तत्र नित्यादिकं नहि ॥ ६॥ सर्वथाऽसत्यरूपं तु खपुष्पं परितिष्ठति । शून्यवादिगृहे तच अन्यत्र नैव संमतम् ॥ १०॥ परस्परं च कार्यकारणता क्षणिके मता। जैनेषु नैव ताक्षं सर्वथा संमतं खलु ॥ ११ ॥ जैन बौद्धस्य सिद्धान्तावलोकनं कृतं न चेत् । कथं तहिं तदीयानां मान्यता दर्शिता त्वया ॥ १२ ॥ भेदज्ञानं विना कृत्वा लेखिनी चोद्यता तव । अतएव च हास्यावकाशता जायते नृणाम् ॥ १३॥ जड़चेतन मध्ये च सर्वथा भिन्न रूपता । अनादिकालिकी ज्ञेया तत्र नोऽभिन्नतामता ॥ १४ ॥ जड़चेतन रूपं च जगज्जनेऽनिगद्यते । तत्र खपुष्प सादृक्षी अभिन्नता प्रकीर्तिता ॥ १५ ॥ उपयोगस्वरूपाः स्युः आत्मानो जैनदर्शने । कर्मानुगुण इत्यादि जैनेषु नैव सर्वथा ॥ १६ ॥ एकान्तकर्मवादश्च मीमांसकेषु संमतः। पञ्चकारणवादोहि संमतो जैनशासने ॥ १७॥ सिद्धात्मसु च नो तादृक् कर्माभावाञ्च सर्वथा। शरीरस्यापि नो सत्ता तत्र केनापि रूपतः ॥ १८॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22