Book Title: Sudarshan Pandit Pratyuttar va Bhram Shodhak
Author(s): Mangalvijay
Publisher: Hemchand Shavchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[७] अरिष्टनेमिनाथश्च द्वाविंशतितमः स्मृतः । वर्धमानजिनेन्द्रश्च चतुर्विंशतिसंख्यकः ॥ ४६॥ वर्धमानस्य पूर्वेऽपि त्रयोविंशतिसंख्यकाः । तेषां वेदेषु नामानि कतिचित्सन्ति पूज्यतः ॥ ५० ॥ कथं तर्हि । महावीरः जैने चायप्रवर्तकः । अतो विचार्य वक्तव्यं परमन्तव्यतत्त्वकम् ।। ५१ ।। श्रीमद् भागवते प्रन्थे योगवाशिष्टशास्त्रके । महाभारतपौराणे श्लोका जैनत्व द्योतकाः ॥ ५२ ।। वेदरहस्यग्रन्थे च व्याख्याताः कतिचिन्मया। ततोऽपि ते च ज्ञातव्याः भ्रान्तिनिरासकांक्षिणा ।। ५३ ।। वेदात्प्रागपि नो चेत्ते तहि तन्नामता कथम् । अतस्ततोऽपि प्राचीनाः सर्वे तीर्थंकरा मताः॥ ५४॥ अनादिता च वेदेषु यदि त्वया निगद्यते । दोषाऽवकाशता तत्र प्रत्यक्षेण विलोक्यताम् ॥ ५५ ॥ ऋषभादिप्रभूणां च सादित्वं स्वीकृतं समैः। कथं तेऽपि समायाताः अनादि वेद शास्त्रके ॥ ५६ ।। तदोषस्य निरासाय तेषां यदि च नित्यता। तदा तेषां पितॄणां च पुत्राणां संभवः कथम् ॥ ७ ॥ चतुर्विंशति तीर्थकराणां च स्वीकृतिर्यदि। तदा तेषु च मध्ये वै प्राथम्यमादिनाथके ॥५८ ॥ श्रीमद्भागवते चैव अतएव निरूपितम्। एकादशसु स्कन्धेषु प्रन्थं निष्कास्य दृश्यताम् ॥ ६ ॥
For Private And Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22