Book Title: Sudarshan Pandit Pratyuttar va Bhram Shodhak
Author(s): Mangalvijay
Publisher: Hemchand Shavchand Shah

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १३ ] युक्तिप्रमाणपूर्वेण व्याख्यातं शीलसूरिभिः । शंका समाधिता तत्र दर्शिता वै प्रमाणतः ।। १०७ ।। सूत्रकृत्सूत्र मध्येच सांख्यादि दर्शनं तथा। आदिदेवोपदेशश्च वैतालीय विभागके ॥ १०८ ॥ नरकस्त्रीविभक्तिश्च नारक दुःखवीक्षणम् । विशेषतोऽत्र संप्रोक्तं सावीय दृष्टिवेदिभिः ।। १०६ ।। अन्यमतीय प्रश्नाश्च प्रोक्ता चै चन्द्रभूतिना। उत्तराः शमभावेन कीर्तिता जिनभास्करैः॥ ११०॥ 'अनेकवस्तुबोधश्च स्पष्टरूपेण जायते । बोधाचारित्रसंप्राप्तिः ततः कर्मक्षयो ध्रुवम् ।। १११ ॥ स्थानांगे चैकमारभ्य दशपर्यंतवस्तुनः । त्रैकालिकपदार्थानां तन्मध्ये च निरूपणम् ॥ ११२ ॥ आक्रोशलेशता नैव मोहाभावे च. सर्वथा । अध्यात्मवादप्राचुर्यं धर्म भाव प्रकाशकः ॥ ११३ ॥ न्यायशास्त्रानु कारित्वं चरकस्य तथैव च । इत्युक्ति लिशानां च नैकट्ये परिशोभते ॥ ११४ ॥ एकदेशीयता तत्र अत्रैव सार्वदेशिकम् । तत्र शुष्कविवादश्च अत्र चाध्यात्मदेशना ॥ ११५ ॥ तस्य साम्यत्व संवादः कदाचिन्नैव युज्यते । हस्तिरासभयोश्चैव कथं साम्यं निगद्यते ॥ ११६ ॥ १ अध्ययने । २ गोतमीय न्यायदर्शनानुकरण । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22