Book Title: Sudarshan Pandit Pratyuttar va Bhram Shodhak
Author(s): Mangalvijay
Publisher: Hemchand Shavchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विमर्शकं समुहिश्य लिखितं भवता खलु। तत्सर्व युक्तिहीनत्वं प्रमाणेन प्रदर्श्यते ।। ३६ ।। वेदविषयज्ञानस्य भवतोऽभावश्च सर्वथा। शंकरादिकविज्ञानां कृतिमुद्दिश्य तत्त्वतः ॥ ४० ॥ लिखितं स्वीय समन्थे नूतनं न कृतं त्वया। महावीरत्वनामाऽऽख्यः जैनधर्म प्रवर्तकः ।। ४१ ॥ प्रतिमादि गुणैर्युक्तः आधस्तदू धर्मदेशकः । अपरो नैव ज्ञातव्यः एवकारेण बोध्यते ॥ ४२ ।। कूपमण्डूकता तेन वाक्येन परिदशिता। नहि स्वकीय सिद्धान्तः स्वयं कदाऽपि वीक्षितः ।।४३।। मृगवेदादि शास्त्रेषु मंत्रा जैनत्वद्योतकाः । शतशः परितिष्ठन्ति नेत्रमुन्मूल्य दृश्यताम् ।। ४४ ।। ऋषभादिजिनेन्द्राणां सुमतिजिनस्वामिनाम् । श्री श्रेयांसप्रभूणां चारिष्टनेमिजिनस्य वै ॥ ४५ ॥ वर्धमानमहावीरप्रभूणां नामपूर्वकाः । बाढं मंत्राश्च तिष्ठन्ति त्वच्छास्त्रं दृश्यतां त्वया ॥४६॥ एवं तीर्थंकराणां च भरतादि चक्रवर्तिनाम् । मंत्राणां विद्यमानेऽपि कथमाद्यः स देशकः ॥ ४७ ।। प्रथम आदिदेवः स्यात् सुमतिश्च पञ्चमो मतः । श्रीश्रेयांसप्रभुश्चैव एकादशतमः खलु ॥ ४८ ॥
१ शंकराचार्यादि। २ तेषु कतिचिच्छलोका जैनत्व घोतकाः सन्ति ।
For Private And Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22