Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 11
________________ त्यर्थत्वादल्पभूता-अल्पा, पूर्व हि तस्य बह्वी पृथ्वीति सम्भावनाऽऽसीदिति १, तथाऽत्यन्तप्रचुरत्वात्कुन्थूनां कुन्थुरा|शिभूतां-कुन्थुराशित्वप्राप्तां पृथिवीं दृष्ट्वा अत्यन्तविस्मयदयाभ्यामिति २, तथा 'महइमहालय'ति महातिमहत् महोरगशरीरं-महाऽहितनुं बाह्यद्वीपवर्तियोजनसहस्रप्रमाणं दृष्ट्वा विस्मयाद् भयाद्वा ३, तथा देवं महर्द्धिकं महाद्युतिक महानुभाग महाबलं महासौख्यं दृष्ट्वा विस्मयादिति ४, तथा 'पुरेसु वत्ति नगराधेकदेशभूतानि प्राकारावृतानि पुराणीति प्रसिद्धं तेषु पुराणानि-चिरन्तनानि ओरालाई क्वचित्पाठः तत्र मनोहराणीत्यर्थः 'महइमहालयाईति विस्तीर्णत्वेन महानिधानानीति-महामूल्यरत्नादिमत्त्वेन, प्रहीणाः स्वामिनो येषां तानि तथा, तथा प्रहीणाः सेकारः-सेचकास्तेब्वेवोपर्युपरि धनप्रक्षेपकाः पुत्रादयो येषां तानि तथा, अथवा प्रहीणाः सेतवः-तदभिज्ञानभूताः पालयस्तन्मार्गा वाऽति-| चिरन्तनतया प्रतिजागरकाभावेन च येषां तानि प्रहीणसेतुकानि, किंबहुना?, निधायकानां यानि गोत्रागाराणि-कुलगृहाणि तान्यपि प्रहीणानि येषां । अथवा तेषामेव गोत्राणि-नामान्याकाराश्च-आकृतयस्ते प्रहीणा येषां तानि प्रहीणगोत्रा गाराणि प्रहीणगोत्राकाराणि वा, एवमुच्छिन्नस्वामिकादीन्यपि, नवरमिह प्रहीणाः-किंचित्सत्तावन्तः उच्छिन्ना-निर्नष्टद्र सत्ताकाः, यानीमानि-अनन्तरोक्तविशेषणानि तथा ग्रामादिषु यानि, तत्र करादिगम्यो ग्रामः, आगत्य कुर्वन्ति यत्र स आकरो-लोहाधुसत्तिभूमिरिति, नास्मिन् करोऽस्तीति नकर, धूलीप्राकारीपेतं खेटं, कुनगरं कर्बट, सर्वतोऽर्द्धयोजनात् परेण स्थितग्राम मडम्ब यस्य जलस्थलपथावुभावपि तद् द्रोणमुखं यत्र जलपथस्थलपथयोरन्यतरेण पर्याहारप्रवेशस्तत्पत्तनं तीर्थस्थानमाश्रमः यत्र पर्वतनितम्बादिदुर्गे परचक्रभयेन रक्षार्थ धान्यादीनि संवहन्ति स संवाहः, यत्र प्रभू JainEducation.in For Personal & Private Use Only wilm.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 478