Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 14
________________ ४१५ अथ पञ्चममध्ययनं पञ्चस्थानकम् । [प्रथम उद्देशकः ।] [सू० ३८९] पंच महव्वता पन्नत्ता, तंजहा-सव्वातो पाणातिवातातो वेरमणं जाव सव्वातो परिग्गहातो वेरमणं । पंचाणुव्वता पन्नत्ता, तंजहाथूलातो पाणातिवातातो वेरमणं, थूलातो मुसावायातो वेरमणं, थूलातो अदिनादाणातो वेरमणं, सदारसंतोसे, इच्छापरिमाणे । [टी०] व्याख्यातं चतुर्थमध्ययनम्, साम्प्रतं सङ्ख्याक्रमसम्बद्धमेव पञ्चस्थानकाख्यं पञ्चममध्ययनं व्याख्यायते, अस्य चायं विशेषाभिसम्बन्ध:-इहानन्तराध्ययने जीवाजीवतद्धख्यिा : पदार्थाश्चतु:स्थानकावतारणेनाभिहिता:, इह तु त एव पञ्चस्थानकावतारणेनाभिधीयन्ते इत्यनेनाभिसम्बन्धेनायातस्यास्योद्देशकत्रयवतश्चतुरनुयोगद्वारवतोऽध्ययनस्य प्रथमोद्देशको व्याख्यायते, अस्य च पूर्वोद्देशकेन सह सम्बन्धोऽधिकृताध्ययनवद् द्रष्टव्यः, तस्य चेदमादिसूत्रम्- पंच महव्वयेत्यादि । ___ अस्य च पूर्वसूत्रेण सहायं सम्बन्ध:- पूर्वसूत्रे अजीवानां परिणामविशेष उक्तः, इह तु स एव जीवानामुच्यत इत्येवंसम्बन्धस्यास्य व्याख्या संहितादिक्रमेण, स च क्षुण्ण एव, नवरं पञ्चेति सङ्ख्यान्तरव्यवच्छेदः, तेन न चत्वारि, प्रथम-पश्चिमतीर्थयो: पञ्चानामेव भावात्, महान्ति बृहन्ति तानि च तानि व्रतानि च नियमा महाव्रतानि, प्रज्ञप्तानि तथाविधशिष्यापेक्षया प्ररूपितानि महावीरेणाऽऽद्यतीर्थकरेण च न शेषैरिति, एतत् किल सुधर्मस्वामी जम्बूस्वामिनं प्रति प्रतिपादयामास । तद्यथा- सर्वस्मात् निरवशेषात् त्रस-स्थावर-सूक्ष्म-बादरभेदभिन्नात् कृत-कारिताऽनुमतिभेदाच्चेत्यर्थः । प्राणानाम् इन्द्रियोच्छ्वासायुरादीनामतिपात: प्राणिनः सकाशाद्विभ्रंश: प्राणातिपात:, प्राणिप्राणवियोजनमित्यर्थः, तस्माद् विरमणं सम्यग्ज्ञान-श्रद्धानपूर्वकं निवर्त्तनमिति । तथा सर्वस्मात् सद्भावप्रतिषेधा १-ऽसद्भावोद्भावन २-अर्थान्तरोक्ति ३-गर्हा४भेदात् कृतादिभेदाच्च, मृषा अलीकं वदनं वादो मृषावादः, तस्माद् विरमणं विरतिरिति। तथा सर्वस्मात् कृतादिभेदात् अथवा द्रव्यत: सचेतना-ऽचेतनद्रव्यविषयात् क्षेत्रतो ग्राम-नगरा-ऽरण्यादिसम्भवात् कालतोऽतीतादे रात्र्यादिप्रभवाद्वा भावतो राग-द्वेष

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 372