Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

Previous | Next

Page 5
________________ यमुपजीव्य विषमभववारिधिनिमजजन्तूद्धारे यानपात्रायमानसकलभुवनानन्यश्रेष्ठ तीर्थाधिराज श्रीसिद्धगिरिराजं संस्मरेयुः शब्दकलेवरलघुतया मुखपाठकरणेन च प्रत्यहं कल्पपठितं स्वात्मानं गिरिराजसंस्मरणोद्भवविशुद्धपरिणामवातेन विषमेभ्यः कर्मनिगडेभ्यो मोचयेयुः इति / .. परं संक्षिप्तरुचीनां परमपवित्रधीशत्रुञ्जयतीर्थराजस्मृत्याऽन्तःकरणं गिरिराजस्पर्शनाभावमा- . बलेन विनिर्मलीकृत्य श्रीविमलाद्रियात्रातुल्यलाभस्य प्राप्तावपि तीर्थात्तंसम्य सिद्धक्षेत्रस्यैतस्य पवित्रगिरिराजस्य विशद नरमहिमानभिज्ञबालजीवानां संक्षिप्तगाथापद्धतिना बीजकरूपेण अथितस्य श्रीविमलाः सातिशयं सप्रभावं माहात्म्यं यथावत् बुद्धिगम्यं स्यात्, येन च जनिमृतिविषमचक्रेऽवस्थितिमूलभूतकर्म बीजसन्तानाच्छेदाय गिरिराजस्य विमलाद्रेः यथार्थाभिधानस्य सद्भूतं गुणगरिमाणमवगम्य भावोल्लासेनैतत्तीर्थस्पर्शन-दर्शन-वन्दन-अर्चा-पूजा-स्मरणादिप्रकारैः विविधमुद्यच्छेयुः स्वात्मशुद्धिलक्ष्यं च सफलयेयुरितिहेतोः तपागच्छाधिराज-श्रीयुत-सहस्रावधानिसूरिसत्तम-श्रीमुनिसुन्दर सूरिशिष्यैः नैककथाप्रबन्ध-चरित्रग्रन्थादिप्रणेतृभिः श्रीशुभशीलगणिभि: लघुकल्पस्यैतस्य गाथानां प्रतिपदं भ्याख्यात्मकं मन्दबुद्धितत्त्वज्ञानबोधनेऽपटुबुद्धिमतां हिताय च सरसैतिह्यसत्यघटनारूपविविधपुण्यशालिजीवदृष्टान्तबहुलतासनार्थ विवरणं ब्रह्मचर्यभेद (18) कर्मभूमिप्रमित (15) (1918) वैक्रमेऽन्दे बालजीवानां प्रबोधायाऽकारि / महाकायश्चैव ग्रन्थः नाद्यावधि मुमुक्षूणां वाचनश्रवणगोचर आसीदिति विभाव्य प्राचीननैकहस्तलिखितसङ्ग्रहानवलोक्य विविवप्रती: गवेषय्य सुगृहित-नामधेयाऽऽगमतलस्पर्शिमर्मश-प्रौढप्रतिभोद्रेकविराजिताऽऽगमवाचनादायक-ध्यानस्थः- स्वर्गताऽऽचार्याऽऽगमोद्धारकापराव-श्रीआनन्दसागरसूरीशैरतद्ग्रन्थस्य सुतरां सम्यग्दर्शननिर्मलताऽवन्ध्यबीजस्य श्रीसिद्धाचलतीर्थाधिराजमन्महिमख्यापकस्य ग्रन्थराजस्य योग्य स्वच्छप्रतिलिपि: भूयसा श्रमेण विविधागमसाहित्यमुद्रापण-शिला-ताम्रपत्रोत्कीरण-व्याख्यान-विवेचनादिकार्यजाते व्यापृतत्वेऽपि तीर्थाधिराजमहिमानं विविधकल्मषक्षालनप्रभविष्णु विभाव्य स्वपरोपकाराय कारिताऽऽसीत् / सा च सूर्यपुरीयाऽऽनन्दपुस्तकालयसन-पूज्याऽऽगमोद्धारकाचार्यश्रीश्रुतभक्तिस्मारक-विपुलतमसङ्ग्रहे सुरक्षिताऽऽसीत् / परमेतस्या: प्रकाशनं तु काललब्धिसापेक्ष एवं हि सञ्जातं यत् पूज्यपादागममर्मज्ञाऽऽचार्यश्रीजन्मना नवाझवृत्तिकारश्रीमदभय देवसूरीश्वरस्वर्गवासेन च परिपूतश्रीकर्पटवाणिज्यद्रले यतिधर्म (10) तत्पालनरूपेण च परित्यज्यमानहिंसाया विश्वा (20) संशमेदमित-(२०१०) वैक्रमेऽब्दे श्रीचिन्तामणिपार्श्वनाथजी द्धिारित नूतनप्रासादे वर्णप्रमाणचतुर्विंशतिबिम्बाञ्जनशलाकादिमहोत्सवप्रसङ्गे पूज्यागमोद्धारकपट्टप्रतिष्ठित-शास्त्रैदम्पर्यबोधक-मूलीशरेनप्रतिबोधक-वात्सल्यसिन्धु-पूज्यतमगच्छाधीश्वर-श्रीमन्माणिक्यसागरसूरीश्वरप्रभुनिश्रायां पूज्यागमोद्धारकाचार्यश्रीलघुशिष्योत्तंस-सप्तवर्षमितलघुवयसि पित्रा

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 404