Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 6
________________ नशासनस्य हैमशब्दानुशासनस्य - स्यौजसमौशस्टाभ्यांभिस्डेभ्यांभ्यस्ङ सिभ्यांभ्यस्ङसोसाम्ङ्योस्सुपां त्रयीत्रयी प्रथमादिः।१।१।१८।। स्यादीनां प्रत्ययानां त्रयी त्रयी यथासंख्यं प्रथमा दितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी च स्यात् ॥ १८ ॥ स्त्यादिर्विभक्तिः।१।१।१९। .. म इति च तीति च उत्सृष्टानुबन्धस्य सेस्तिवश्व ग्रहणम् । स्यादयस्तिवादयश्च सुप स्यामहि पर्यन्ता विभक्तयः स्युः ॥ १९ ॥ . तदन्त पदम् ।१।१।२०। स्याद्यन्तं त्याद्यन्तं च पदं स्यात् । धर्मो वः स्वं ददाति नः शास्त्रम् ॥ २० ॥ नाम सिदयव्यञ्जने।१।१।२१॥ सितिप्रत्यये यवर्ज व्यञ्जनादौ च परे पूर्व नाम पदं स्यात्। भवदीयः । पयोभ्याम् । अयितिकिम् । वाच्यति ॥ २१ ॥ नं क्ये ।१।१।२२। क्य इति क्यन् क्यङ् क्यषां ग्रहणम् । नान्तं नाम क्ये परे पदं स्यात्। राजीयति । राजायते । चर्मायति ॥ २२ ॥ - न स्तं मत्वर्थे । १।१।२३। सान्तं तान्तं च नाम मत्वर्थे परे पदं न स्यात् । यशस्वी । तडित्वान् ॥ २३ ॥ मनुर्नभोऽङ्गिरो वति ।१।१।२४।

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 588