Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Pathshala
View full book text ________________
हैम शब्दानुशासनस्य
ओष्ठौत्वोः परयोः समासेऽवर्णस्य लुग्वा स्यात् । बिम्बोष्ठी । बिम्बोष्ठी । स्थूलोतुः । स्थूलौतुः । समासइति किम् हे पुत्रौष्ठपश्य ॥ १७ ॥ ओमाङि । १ । २ । १८ ।
अवर्णस्य ओमि आङादेशे च परे लुक् स्यात् । अद्योम् । सोम् । आऊढा । ओढा । अद्योढा । सोढा ॥ १८ ॥
उपसर्गस्यानिषेधेदोति । १ । २ । १९ ।
उपसर्गवर्णस्य इणेधिवर्जे एदादावादादौ च धातौ परे लुक् स्यात् । प्रेलयति । परेलयति । प्रोषति । परोषति । अनिणेधितिकिम् । उपैति । प्रैधते ॥ १९॥
वानाम्नि । १ । २ । २०।
नामTara दादावोदादौ च धातौ परे उपसर्गावर्णस्य लुग वा स्यात् । उपेकीयति । उपैकीयति । प्रोषधीयति । प्रौषधीयति ॥ २० ॥
इवर्णादेरस्वेस्वरे यवरलम् । १ । २ । २१ ।
इ उ ऋ ऌ वर्णानामस्वे स्वरे परे यथासंख्यं य व र ल इत्येते स्युः । दध्यत्र । नद्येषा | मध्वत्र । वध्वासनं । पित्रर्थः । क्रादिः । लित् । लाकृतिः ॥ २१ ॥
ह्रस्वोऽपदे वा । १ । २ । २२ ।
" वर्णादीनामस् वरे परे ह्रस्वो वा स्यात् । नचेत्तौ निमित्तनिमि त्तिनावेकत्र पदे स्याताम् । नदिएषा । नद्येषा । मधुअत्र | मध्वत्र । अपद इतिकिम् । नद्यौ । नद्यर्थः ॥ २२ ॥ एदैतोऽयाय । १ । २ । २३।
एदैतोः स्वरे परे यथासंख्यं अय् आय् इत्येतौ स्याताम् । नयनम् । वृक्षयेव । नायकः । रायैन्द्री ॥ २३ ॥
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 588